________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : ४
॥२॥
उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसी, पुरोऽपराह्णे निजच्छायाम्"
१३५
तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति
मू. (८७) एयं पस्स मुणी ! महब्भयं नाइवाइज कंचणं, एसवीरे पसंसिए, जेन निव्विज्जइ आयाणाए, न मे देइ न कुप्पिजा धोवं लधुं न खिसए, पडिसेहिओ परिणमिजा, एयं मोणं समणुवासिज्जासि-त्तिबेमि ॥
वृ. 'एतत्' प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्मयं भयहेतुत्वात् दुःखमेव महाभयं तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने ! 'पश्य' सम्यगैहिकामुष्मिकापायापाद कत्वेन जानीहीत्युक्तं भवति । यद्येवं तत्किं कुर्यादित्याह- 'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महद्मयमतस्तदर्थं 'नातिपातयेत्' न व्यथेत 'कञ्चन' कमपि जीवमिति, अस्य च शेषप्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपातादिव्रतारूढश्च कं गुणमवाप्नोतीत्याह- 'एस' इत्यादि, 'एष' इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्म्मविदारणात् ‘प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम ? योऽभिष्ट्रयत इत्यत आह- 'जे' इत्यादि, यो 'न निर्विद्यते,' न खिद्यते न जुगुप्सते, कस्मै ? - 'आदानाय ' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्वमशेषावारककर्म्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना (ना) बाधसुखरूपं येन तदादानं संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति,
आह-'न मे' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽप्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा 'न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च ममैवैषा कर्म्मपरिणतिरित्यलाभोदयोऽयम्, अनेन चालाभेन कर्म्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति न किञ्चित्सूयते, अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत तदपि न निन्देदित्याह - 'थोवं' इत्यादि, 'स्तोकम्' अपर्याप्तं 'लद्धुं' लहध्वा न निन्देद्दातारं दत्तं वा, तथाहि कतिचित्सिक्यानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय लवणाहारोवा अस्माकं नास्तीत्यन्नं ददस्वेत्येवं अत्युद्वृ त्तच्छात्रवन्न विदध्यात् । किंच 'पडिसेहिओ' इत्यादि, ‘प्रतिषिद्धः’अदित्सितस्तस्मादेव प्रदेशात् 'परिणमेत्' निवर्त्तेत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनीपवदेद्-धिरक्ते गृहवासमिति, उक्तं च
11911
" दिट्ठाऽसि कसेरुमई ! अणुभूयासि कसेरुमइ !
पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं "
इत्यादि । पठ्यते च-'पडिलाभिओ परिणमेज्जा" प्रतिलाभितः प्राप्तभिक्षादिलाभः सन् परिणमेतु, नोच्चावचालापैः तत्रैव संस्तवं विदध्याद्, वैतालिकवद्दातारं नोत्प्रासयेदिति । उपसंहरन्नाह'एयं' इत्यादि, 'एतत्' प्रव्रज्यानिर्वेदरूपं अदानाकोपनं स्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मोनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् 'समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ ब्रवीमि पूर्ववत् ॥ अध्ययनं २, उद्देशकः -४ समाप्तः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org