________________
१३२
आचाराङ्ग सूत्रम् १/२/३/८३
दुःखी, एवंभूतश्च सन् किमवाप्नोतीत्याह- 'दुक्खाणं' इत्यादि, दुःखानां शारीरमानसानामावर्त्तपौनःपुन्यभवनमनुपरिवर्तते, दुःखावर्त्तावमग्नो बंभ्रम्यत इत्यर्थः, । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
अध्ययनं -२ उद्देशकः- ३ समाप्तः
-: अध्ययनः २, उद्देशकः ४ :
मू. (८४) तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते व णं एगया नियया पुव्विं परिवयंति, सो वा ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयं सायं भोगा मे व अनुसोयन्ति इहमेगेसिं माणवाणं ।
बृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते भोगेष्वनभिषक्तेन भाव्यं, यतो भोगिनामपाया दर्श्यन्ते (इति) प्रागुक्तं, तेचामी- 'तओसेएगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खी दुक्खाणमेव आवद्धं अणुपरियट्टइ' त्ति, तानि चामूनि दुःखानि 'तओसे' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'बाले पुणनि काममसमणुष्णे', तेच कामादुःखात्मकाएव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते- 'तत' इति कामानुषङ्गात् कर्म्मोपचयस्ततोऽपि पञ्चत्वं तस्मादपि नरकभवो नरकान्निषेककललार्बुदपेशीव्यूह - गर्भप्रसवादिर्जातस्य च रोगाः प्रादुष्यन्ति, 'से' तस्य कामानुषक्तमनसः 'एकदे' त्यसाता - वेदनीयविपाकोदये 'रोगसमुत्पादा' इति रोगाणां - शिरोऽर्त्तिशूलादीनां समुत्पादाः प्रादुर्भावाः 'समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायां किंभूतो भवत्यसावित्यत आह- 'जेहिं' इत्यादि, यैर्वा 'सार्द्धमसौ संवसति, त एवैकदा निजाः पूर्वं परिवदन्ति, स वा तान्निजान् पश्चात्परिवदेत्, नालं 'ते; तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, इति ज्ञात्वा दुःखं प्रत्येकं सातं च स्वकृतकर्म्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ न दौर्मनस्यं भावनीयं, न भोगाः शोचनीया इति,
आहच- 'भोगा में' इत्यादि, भोगाः- शब्दरूपरसगन्धस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायां वयं भोगान् भुक्तमहे ?, एवंभूता वाऽस्माकं दशाऽभूद्येन मनोज्ञा अपि विषया उपनता नोपभोगायेति । ईदक्षञ्चाध्यवसायः केषाञ्चिदेव भवतीत्याह - 'इहमेगेसिं' इत्यादि, 'इह' संसारेएकेषामनवगतविषयविपाकानांब्रह्मदत्तादीनांमानवानामेवंभूतोऽध्यवसायो भवति, न सर्वेषां सनत्कुमारादिना व्यभिचारात्, तथाहि ब्रह्मदत्तो मारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमीं मूर्च्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या ध्ये दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिर्निरूपितो नियत्या आदित्सितो दैवेन अन्तिकेऽन्त्योच्छ्वासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वाग्रे जीवितेशस्य वर्त्तमानो विरलो वाचि विह्वलो वपुषि प्रचुरः प्रलापे जितो जृम्मभिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकाङ्क्षिषुः पार्श्वोपविष्टां भार्यामनवरत वेदनावेशविगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरत्रधः सप्तमीं नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्य वगणय्य वेदनां तामेव कुरुमतीं व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चित्, न पुनरन्येषां महापुरुषाणामुदारसत्त्वानाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org