________________
श्रुतस्कन्धः - १,
अध्ययनं - २, उद्देशक ३
परकूलं तद्गच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः 'एत' इति पूर्वोक्ताः, पारगतोपदेशाभावादपारङ्गता इति भावनीयं, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, अथवा गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थसमासोऽयं, तेनायमर्थः - पारगमनाय ते न भवन्तीत्युक्तं भवति, ततश्चानन्तमपि कालं संसारान्तर्वर्त्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचित शास्त्रप्रवृत्तयो नैव संसारपारं गन्तुमलम्, अथ तीरपारयोः को विशेष इति उच्यते, तीरं मोहनीयक्षयः पारं शेषधातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात् कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह'आयाणिजं' इत्यादि, आदीयन्ते गृह्यन्ते सर्वभावा अनेनेत्यादानीयं श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थानेन तिष्ठति,
१३१
यदि वा-आदानीयम्-आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्यहिरण्यादि तदादायगृहीत्वा अथवा मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं कर्म्मादाय, किंभूतो भवतीत्याह'तस्मिन्' ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठतिनात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति- 'वितहं' इत्यादि, वितथम्असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः अकुशलः खेदज्ञो वाऽसंयमस्थाने तस्मिश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीतियावत्, अथवा वितथमिति आदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानं तत्प्राप्य खेदज्ञो निपुणस्तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयन्तीत्यर्थः । अयं चोपदेशो ऽनवगततत्त्वस्य विनेयस्य यथोपदेशं प्रवर्त्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च
मू. (८३) उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुने असमियदुक्खे दुक्खी दुक्खाणमेव आवहं अणुपरियट्टइ- त्तिबेमि ॥
वृ. उद्दिश्यते इत्युद्देशः- उपदेशः सदसत्कर्त्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यकः सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो - नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादिति भावः, कः पुनर्यथोपदेशकारी न भवतीत्याह- 'बाले' इत्यादि, बालो नामरागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसर्गैर्वा निहन्यत इति निहः, निपूर्वाद्धन्तेः कर्म्मणि डः, अथवा स्निह्यत इति स्निहः-स्नेहवान् रागीत्यर्थः, अत एवाह- 'कामसमणुन्ने' कामाःइच्छामदनरूपाः सम्यग् मनोज्ञा यस्य स तथा, अथवा सह मनोज्ञैर्वर्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः, कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह 'असमियदुक्खे' अशमितम् - अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्यां तत्र शारीरं कण्टकशस्त्रगण्डलूता- दिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिद्यदौर्भाग्यदौर्मनस्यकृतं तद्विरूपमपि दुःखंविद्यते यस्यासी
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only