________________
आचाराङ्ग सूत्रम् १/-/२/२/७६
एतदुक्तं भवति तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तैः 'विरूपरूपेः' नानाप्रकारैः पिण्डदानादिभिः कार्यै: 'दण्डसमादान' मिति दण्डयन्ते - व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतत्राकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थजानानैर्दण्डसमादानं क्रियत इति दर्शयति- 'पावमोक्खो' त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्त्तत इति, तथाहि - हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपावविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युद्राहितमतयो जुह्वति, तथा पितृपिण्डदानादौ वस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्युक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अनेकभवशतकोटीदुम्र्म्मोचमघमेवोपाददत इति । किञ्च 'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम्, अथवा आशंसनम् आशंसा - अप्राप्तप्रापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते, तथाहि ममैतत् परुत्परारि वा प्रेत्य वोपस्थान्यते इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च
१२२
॥१॥“ आराध्य भूपतिमवाप्य ततो धनानि, मोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुंसाम एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर ।
॥२॥
इत्याद्याशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः”
"
इत्यादि ॥ तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह
मू (७७) तं परिण्णाय मेहावी नेव सयतं एएहिं कज्जेहिं दंडं समारंभिज्जा नेव अनं एएहिं कज्जेहिं दंड समारंभाविज्जा एएहिं कज्जेहिं दंडं समारंभतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि-त्तिबेमि ॥
वृ ' तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायदिभेदभिन्नं शस्त्रम्, इह वा यदुक्तम् अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थनक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानंज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्यादावर्त्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह- 'नेव सयं' इत्यादि, नैच 'स्वयम्' आत्मना एतैः आत्मबलाधानादिकैः 'कार्ये:' कर्त्तव्यैः समुपस्थितैः सद्मिः 'दण्डं' सत्त्वोपघातं समारभेत्, नाप्यन्यमपरमेभिः कार्यौर्हिसानृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् एष चोपदेशस्तीर्थकृधिरभिहित इत्येतत् सुधर्म्मस्वामी जम्बूस्वामिनमाहेति दर्शयति- 'एस' इत्यादि, 'एष' इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा 'आर्येः' आराघाताः सर्वहयधर्मेभ्य इत्यार्याः संसारार्णवतटवर्त्तिनः क्षीणघातिकर्म्माशाः संसारोदरविवरवर्त्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षेण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org