SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: २ 119 11 "धावेइ रोहणं तर सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवंपिहु पुरिसो जो होइ धणलुद्धो अडइ बहुं वह भरं सहइ छुहं पावमायरइ धिट्टो । कुलसीलजाइपच्चयधिई च लोभदुओ चयइ 37 इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति ॥२॥ १२१ मू (७६) विणाइत्तु लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकखइ, एस अणगारिति पञ्चइ, अहो य राओ परितप्पमाणे कालाकालसमुट्ठाइ संजोगट्ठी अट्ठालोभी आलुपे सहस्साकारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिचबले से देवबले से रायबले से चोरबले से अतिहिबले से किविणबले से समणबले, इच्चेएहिं विरूवरूयेहिं कजेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्त्रमाणे, अदुवा आसंसाए वृ कश्चिद्मरतादिर्निःशेषतो लोभापगमाद्विनापि लोभं 'निष्क्रम्य' प्रव्रज्यांप्रतिपद्य, पाठान्तरं वा 'विणइत्तु लोभं' सञ्जवलनसंज्ञकमपि लोभं 'विनीय' निर्मूलतोऽपनीय एष एवंभूतः सन् 'अकर्मा' अपगतघातिकर्म्मचतुष्टयाविर्भूतानावरणज्ञानो विशेषतो जानाति सामान्यतः पश्यति, एतदुक्तं भवति - एवंभूतो लोभो येन तत्क्षये मोहनीयक्षये चावश्यं धातिकर्म्मक्षयस्तस्मिंश्च निरावरणज्ञानसद्मावस्ततोऽपि भवोपग्राहिकम्र्म्मापगम इत्यतो लोभापगमे अकर्मेत्युक्तम् । यतश्चैवम्भूतो लोभो दुरन्तस्तद्धानौ चावश्यं कर्म्मक्षयस्ततः किं कर्त्तव्यमित्याह- 'पडिलेहाए' इत्यादि, प्रत्युपेक्षणया गुणदोषपर्यालोचनयोपपन्नः सन्नथवा लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणंच लोभं 'नावकाङ्क्षति' नाभिलषतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवर्ती विषयकषायाद्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्वं संतिष्ठते, तथाहि अलोभंलोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सकर्म्मा न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकाङ्क्षति यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचि तच्च वाच्यमिति, आह च- 'अहो य राओ' इत्यादि, अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र-शस्त्रो पृथिवीकायाद्युपघातकारिणि पौनःपुन्येन वर्त्तते । किंच 'से आयबले; आत्मानो वलं-शक्त्युपचयआत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायेरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधत्ते, तथाहि 'मांसेन पुष्यते मांस' मितिकृत्वा पञ्चेन्द्रियघातादावपि प्रवर्त्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च 'ज्ञातिबलं' स्वजनबलं मे मावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तठप्रेत्यबलं भविष्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभागं वा प्राप्स्यामीति चौरानुपचरति, अतिधिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तं च119 11 “तिथिपर्वोत्स्वाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ' 77 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy