SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० आचाराङ्ग सूत्रम् १/-/२/२/७४ ततो लब्धान् कामान् 'अभिगाहन्ते' सेवन्ते, तिच्यत्ययेन चैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि, अहिंसका वयं भविष्याम एवममृषावादिन इत्याद्यप्यायोज्यम् । तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान्बिभ्रति, उक्तं च"स्वेच्छाविरचितशास्त्रः प्रवज्यावेषधारिभिः क्षुद्रैः । 11911 नानाविधैरुपायेरनाथवन्मुष्यते लोकः ' " इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामानवगाहन्ते तल्लाभार्थं च तदुपायेषु प्रवर्त्तन्ते इत्याह-‘अणाणाए’ इत्यादि, 'अनाज्ञया' स्वैरिण्या बुद्धया 'मुनय' इति मुनिवेषविडम्बिनः कामोपायान् 'प्रत्युपेक्षन्ते' कामोपायारम्भेषु पौनःपुन्येन लगन्तीति, आहच- 'एत्थ' इत्यादि, 'अत्र' अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन 'सन्नाः ' विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मनमाक्रष्टुं नालमिति, आह च 'नो हव्वाए नो पाराए' यो हि मध्येमहानदीपूरं निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदीपूरमिति, एवमत्रापि कुतश्चिन्निमितात्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरत्नकुप्यदासादिविभव आकिञ्चन्यं प्रतिज्ञायारातीयतीरदेश्याद्गृहवाससाख्यान्निर्गतः सन् नो हव्वाएत्ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तत्क्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोली वोभयभ्रष्टो न ग्रहस्थो नापि प्रव्रजित इत्युक्तं भवति, उक्तं च"इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया । मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् 119 11 PP इति । ये पुनरप्रशस्ततिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याहमू (७५) विमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाइ । घृ विविधम्- अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्ममावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ता विमुक्ताः ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो मोक्षः संसारार्णवतटवृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादर्थ्यात्ताच्छब्द्यं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारं - ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धकथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह 'लोभं' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि क्षपक श्रेण्यन्तर्गतस्थापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभं, तद्विपक्षेण अलोभेन 'जुगुप्समानो' निन्दन्परिहरन् किं करोतीत्याह-'लद्धे' इत्यादि, 'लब्धान्' प्राप्तनिच्छामदनरूपान् कामान 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेन चोपसर्जनाधस्तनपरित्यागोद्रष्टव्यः, तद्यथाक्रोधं क्षान्त्या जुगुप्समानो मानं मार्द्दवेन मायामार्जवेनेत्याद्यप्यायोज्यं, लोभोपादानं तु सर्वकषाप्रधान्यख्यापनार्थमुपाददे, तथाहि तव्यवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थैकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy