________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: २
119 11
अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा । विद्वच्चित्तं भवति हि महन्मोक्षमार्गेकतानं, नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः
नेतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य, न च ज्ञानारत्योर्विरोधः, अपि तु रत्यरत्योः, ततश्च संयमगता रतिरेवारत्या बाध्यते न ज्ञानम्, अतो ज्ञानिनोऽपि चारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकं, न संयमारतेः, तथा चोक्तम्
119 11
11
ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युङ्कते न कर्तृ स्वयम् । दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां, सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः
११९
""
तथेदमपि भवतोन कर्णविवरमगाद् द्यथा- 'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यती' त्यतो यत्किञ्चिदेतत्, अथवा नारत्यापन्न एचैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोतीत्याह- 'खणंसि मुक्के 'परमनिरुद्धः कालः क्षणः जरत्पट्टशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो विभक्तिपरिणामाद्वा क्षणेनअष्टप्रकारेण कर्म्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्भुक्तो भरतवदिति, ये पुनरनुपदेशवर्त्तिनः कण्डरीकाद्यास्ते चतुग्र्गतिकसंसारन्तर्वर्त्तिनो दुःखसागरमधिवसन्तीत्याह च
मू (७४) अणाणाय पुट्ठावि एगे नियट्टंति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हव्वाए नो पाराए।
वृ आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या ‘स्पृष्टाः' परीषहोपसर्गेः, अपिशब्दः सम्मावनायां स च भिन्नक्रमो निवर्त्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, ‘एके’ मोहनीयोदयात्कण्डरीकादयोन सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात् निवर्त्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्तन्त इत्याह'मन्दा' जडा अपगतकर्त्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता ?, यतो 'मोहेन प्रावृता' मोहः - अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्डिताः, उक्तं च
11911
"अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः "
इत्यादि, तदेवमवाप्तचारित्रोऽपि कम्र्म्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गःपश्चाद्मावतामालम्बत इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवन्तत इति दर्शयति- 'अपरिग्गहा;' इत्यादि, परिः- समन्तात् मनोवाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org