________________
११८
आचारागसूत्रम् १-२/२/७३ न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथासंयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्प्रकारंकापहीयतेतथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्यनार्थाधिकारेऽम्यधायि, तच्च कयंक्षीयत इत्याह
मू (७३) अरइंआउट्टे से मेहावी, खणसि मुक्के।
वृ अस्य चानन्तरसूत्रेणसम्बन्धो वाच्यः, सचायम्-'आयÉसमणुवासेन्जासि' आत्मार्य संयमंसम्यक्तयाकुर्यात, तत्रकदाचिदरत्युभवोभवेतदर्थमाह-अरई' इत्यादिपरम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं-चारित्रावसरमवाप्यारतिं न कुर्यादित्याह-'अरई' इत्यादि,
आदिसूत्रसम्बन्धस्तु सुअंमेआउसंतेणं भगवयाएवमक्खायं किंतच्छुतमित्याह-'अरइंआउट्टे सेमेहावी रमणरतिस्तदभावोऽरतिस्तांपञ्चविधाचारविषयांमोहोदयात् कषायाभिष्वङ्गजनितां मातापितृकलत्राद्युत्यापितां 'स' इत्यरतिमान मेधावी विदितासारसंसारस्वभावःसन् आवर्तेत अपवर्तेत निवर्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति-विषयाभिष्वङ्गेरतिं निवर्तेत, निवर्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं भवति-संयमे रतिं कुर्वीत, तद्विहितरतेस्तुन किञ्चिद्बाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च॥१॥क्षितितलशयनं वा प्रान्तमैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा।
महति फलविशेषे नित्यमभ्युद्यतानां, न मनसिन शरीरे दुःखमुत्पादयन्ति ॥२॥ तणसंथारनिसण्णोऽविमुनिवरो भठ्ठारागमयमोहो।
जंपावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि? इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते, तच्चावधावनं संयमात् यैहेतुभिर्भवति तात्रियुक्तिका गाययाऽऽचष्टेनि [१९७] बिइउद्देसे अदढो उसंजमे कोइ हुन्न अरईए।
___ अन्नाणकम्मलोमाइएहिं अज्झत्थदोसेहिं ।। वृइहहिप्रथमोद्देशकेबहयोनियुक्तिगाथाअस्मिंस्तिवयमेवैकेत्यतोमन्दबुद्धेः स्यादारेका यथाइयमपितत्रत्यैवेत्यतोविनेयसुखप्रतिपत्त्यर्थंद्वितीयोद्देशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे सप्तदशभेदभिन्ने 'अटः' शिथिलो मोहनीयोदयादरत्युद्मवाद्मवेत्, मोहनीयोदयोऽप्याध्यात्सिकैर्दोषैर्भवेत्,तेचाध्यात्मदोषाअज्ञानलोभादयः, आदिशब्दादिच्छामदनकामानां परिग्रहो,मोहस्यज्ञानलोभकामाद्यात्मकत्वात्तेषांचाध्यात्मिकत्वादितिगाथार्थः ॥ ननुचारतिमतो मेधाविनोऽनेनसूत्रेणोपदेशोदीयतेयथा-संयमारतिमपवर्तेत, मेधावीचात्र विदितसंसारस्वभावो विवक्षितो, यश्चैवंभूतोनासावरतिमान्तद्वांश्चेत्र विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेनविरोधेन विरोधाच्छायातपयोरिव नैकवावस्थानम्, उक्तंच-- ॥॥ "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः।
तमसः कतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातम?" इत्यादि, योह्यज्ञानी मोहोपहतचेताः सविषयाभिष्वङ्गात्संयमेसर्वद्वन्द्वप्रत्यनीकेरत्यमावं विदध्याद्, आह च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org