________________
११७
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक: कर्माणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति
नोकर्मभावक्षणस्त्वालस्यमोहावर्णवादस्तम्माद्यमावे सम्यकत्वाद्यवाप्त्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलजनक्षम मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तंच॥१॥ “आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता।
भयसोगा अन्नाणा विक्खेव कुऊहला रमणा ॥२॥ एएहिं कारणेहिं लभ्रूणं सुदुल्लहपि माणुस्सं।
न लहइ सुई हिअरि संसारुत्तारणिं जीवो" तदेवंचतुर्विधोऽपिक्षणउक्तः,तद्यथा-द्रव्यक्षणोजङ्गमत्वादिविशिष्टंमनुष्यजन्मक्षेत्रक्षण आर्यक्षेत्रंकालक्षणो धर्मचरणकालो भावक्षणः क्षयोपशमादिरूपः । इत्येवंभूतमवसरमवाप्यात्मार्थ समनुवासयेदित्युत्तरेण सम्बन्धः । किं च--
मू (७२)जाव सोयपरिण्णाणाअपरिहीणानेतपरिण्णाणा अपरिहीणा घाणपरिण्णाणा अपरिहीणा जीहपरिण्णाणा फरि इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयर्टी संमं समणुवासिज्जासि-त्तिबेमि।।
वृ यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रघ्राणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्ध प्रतिपद्यन्ते, इत्येतैः 'विरूपरूपैः' इष्टानिष्टरूपतयानानारूपैः 'प्रज्ञानैः प्रकृटैनैिरपरिक्षीयमाणैः समिः किं कुर्याद्? इत्याह-'आयटुं' इत्यादि, आत्मनोऽर्थ आत्मार्थः, सच ज्ञानदर्शनचारित्रात्मकः,अन्यस्तवनर्थ एव,अथवाऽऽत्मने हितं-प्रयोजनमात्मार्थं, तच्च चारित्रानुष्ठानमेव, अथवा आयतः-अपर्यवसानान्मोक्षएव, सचासावर्थश्चायतार्थोऽतस्तं, यदिवाऽऽयत्तो मोक्षः अर्थः-प्रयोजनंयस्यदर्शनादित्रयस्य तत्तथा 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्तालिट्सप सं-सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणम्-अवसरंप्रतिपद्यश्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थं 'समनुवासयेः' आत्मनि विदध्याः । अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम'इतिकृत्वातेनवाआत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं समनुवासये भावयेद्रञ्जयेत्, आयतार्थंवा मोक्षाख्यंसम्यग्-अपुनरागमनेनान्विति-यथोक्तानुष्ठानात्पश्चादात्मना 'समनुवासयेद् अधिष्ठापयेत् । इतिः' परिसमाप्तौ, ब्रवीमीतिसुधर्मस्वामीजम्बूस्वामिनमिदमाह, यद्मगवता श्रीवर्द्धमानस्वामिनाऽर्थतोऽम्यधायितदेवाहं सूत्रात्मना वचीति
अध्ययनं-१, उद्देशकः १ समाप्त:
-अध्ययन-२, उद्देशकः-२ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्रानिरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराधनभिभूतचेतसाऽऽत्मार्थः-संयमोऽमनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् इहापि तस्मिन्नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद्, अज्ञानकर्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org