________________
११६
आचाराङ्ग सूत्रम् १/-/२/१/७१
मू (७१) खणं जाणाहि पंडिए ।
वृ क्षण:- अवसरो धम्र्मानुष्ठानस्य, सचार्यक्षेत्र सुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहारदोषदुष्टानां जराबालभाव रोगाणामभावे सति, तं क्षणं 'जानीहि ' अवगच्छ 'पण्डित' आत्मज्ञ ! । अथवाऽवसीदन् शिष्यः प्रोत्साह्यते - हे अनतिक्रान्तयौवन ! परिवादादिदोषत्रयास्पृष्ट! पण्डित ! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि ' अवबुध्यस्व, तथाहि द्रव्यक्षणो द्रव्यात्मकोऽवसरो जङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वायाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि - देवनारकभवयोः सम्यकत्व श्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति । क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यर्द्धतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसुकर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धर्षाििड्वंशेषु जनपदेष्वित्यादिकः क्षेत्रक्षणःक्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आद्ये एव सामायिके । कालक्षणस्तु कालरूपः क्षणोऽवसरः, स चावसर्पिण्यां तिसृषु समासु सुषमदुष्षमादुष्षमसुषमादुष्षमाख्यासु उत्सर्पिण्यां तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूर्द्धाधोलोके सर्वासु च समासु द्रष्टव्याः, 1
7
भावक्षणस्तु द्वेधा-कर्म्मभावक्षणो नोकर्म्मभावक्षणश्च तत्र कर्म्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाप्ताववसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तम'हूर्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तम्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, सचोत्कृष्टतो देशोनां पूर्वकोटिंयावदवगन्तव्यः, सम्यकत्वक्षणस्त्वजधन्योत्कृष्टस्थितावायुषो वर्त्तमानस्य, शेषाणां तुकर्म्मर्णा पल्योपमासङ्घयेयभागन्यनान्तः सागरोपमकोटिकोटीस्थितिकस्य जन्तोर्भवति, स चानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽ भव्येभ्योऽनन्तगुणया शुद्धया विशुद्धयमानो मति श्रुतविभङ्गान्यतरसाकारोपयुक्तः शुद्धलेश्यात्रिकान्ततरलेश्योऽशुभकर्म्मप्रकृतीनां चतुःस्थानिकरसं द्विस्थानिकतामापादयन् शुभानां च द्विस्थानिकं चतुःस्थानिकतां नयन् बध्नंश्च ध्रुवप्रकृतीः परिवर्तमानाश्च भवप्रायोग्या बध्नन्निति,
ध्रुवकर्म्मप्रकृतयश्चेमाः पञ्चधा ज्ञानावरणीयंनवधा दर्शनावरणीयं मिध्यात्वं कषायषोडशकं भयं जुगुप्सा तैजसकार्मणशरीरेवर्णगन्धरसस्पर्शागुरुलघूपधातनिर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशद् ध्रुवप्रकृतयः, आसां सर्वदा बध्यमानत्वात्, मनुष्यतिरश्चोरन्यतरः प्रथमं सम्यकत्वमुत्पादयत्रेता एकविंशतिः परिवर्त्तमाना बध्नाति, तद्यथा - देवगत्यानुपूर्वीद्वयपञ्चेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरसंस्थानपराधातोच्छसप्रशस्तविहायोगतिप्रशस्तत्रसादिदशकसातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथमसंहननसहितानि शुभानि बध्नन्ति, तमतमानारकास्तुतिर्यग्गत्यानुपूर्वीद्वयनीचैर्गोत्रसहितानीति, तदध्यवसायोपपत्रः सन्त्रायुष्कमबध्नन् यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्त्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यकत्वमवाप्नोति, तत ऊर्ध्वमेण क्षीयमाणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org