SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - 9, अध्ययनं - २, उद्देशकः १ ११५ तवेत्युपदेशविषयापन्न उच्यते, 'त्राणाय' आपद्रक्षणार्थं 'शरणाय' निर्भयस्थित्यर्थं 'नालं' न समर्थाः, त्वमपि तेषां त्राणशरणे कर्त्तुं नालमिति ॥ तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत्प्रतिपादितं, अर्थोऽपि महत्ता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येव्यतिपिपादयिषुराह मू (६८) उवाईयसेसेण वा संनिहिसंनिचओ किजई इहमेगेसिं असंजयाण भोयणाए, तओ से एगया रोगसमुप्पाया समुप्पज्जंति, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुव्वि परिहरति, सो वा ते नियये पच्छा परिहरिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा । वृ 'उपादिते' ति 'अद्भक्षणे' इत्येतस्मादुपपूर्व्वान्निष्ठाप्रत्ययः, तत्र 'बहुलंछन्दसी' तीडागमः, उपादितम् उपभुक्तं, तस्य शेषमुपभुक्तरोषं, तेन वा, वाशब्दादनुपभुक्तशेषेण वा सन्निधानंसन्निधिस्तस्य संनिचयः सन्निधिसन्निचयः, अथवा सम्यग् निधीयते - अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिस्तस्य सन्निचय:- प्राचुर्य्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स 'इह' अस्मिन्संसारे 'एकेषाम्' असंयतानां संयताभासानां वा केषाञ्चिद् 'भोजनाय' उपभोगार्थं क्रियते' विधीयत इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह 'तओ से' इत्यादि, 'ततो' द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे से' तस्य बुभुक्षोः 'एकदेति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावित वेदनीयकम्र्म्मोदये 'रोगसमुत्पादाः' ज्वरादिप्रादुर्भावाः 'समुत्पद्यन्त' इत्याविर्भवन्ति । स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किंभूतो भवति इत्याह- 'जेहिं' इत्यादि, 'यैः 'मातापित्रादिभिर्निजैः सार्द्धसंवसति त एव वा निजाः 'एकदा ' रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति स वा तान्निजान्पश्चात्परिभवोत्थापितविवेकः 'परिहरेत्' त्यजेत् तत्रिरपेक्षः सेडुकवत् स्यादित्यर्थः, ते चस्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति 'नाल' मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तः करणेन चापगतत्राणेन च किमालम्ब्य सम्यक्करणेन रोगवेदनाः सोढव्या: ? इत्याह यू (६९) जाणित्तु दुक्खं पत्तेयं साय । वृ ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽ दीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्म्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च #1 ॥ १ ॥ “सह कलेवर ! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि जीव है!, परवशो न च तत्र गुणोऽस्ति ते ' यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानैः जराजीर्णं न निजाः परिवदन्ति यावञ्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति मू (७०) अनाभक्क्तं च खलु वयं संपेहाए । वृ चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य “आयट्टं मणुवासेज्जासि" इत्युत्तरेण सम्बन्धः, 'आत्मार्थम्' आत्महितं 'समनुवासयेत्' कुर्यादित्यर्थः । किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति ?, परेणापि लब्धवसरेणात्महितमनुष्ठेयमित्येतद्दर्शयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy