SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११४ आचाराङ्गसूत्रम् १/-/२/१/६६ भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तौंहूर्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्तमित्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेदिति वाच्यं, तदुक्तम्॥१॥ सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय। हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ? ॥२॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् " इत्यादि, किमर्थंच नोप्रमादयेदित्याह- 'वयो अन्चेइ'त्ति, वयः-कुमारादिअत्येति-अतीव एति-यादि अत्येति, अन्यच्च-'जोव्वणं वत्ति अत्येत्यनुवर्तते, यौवनं वाऽत्येति-अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थं, धर्मार्थकामानां तन्निबन्धनवात्सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तंच॥१॥ “नइवेगसमं चवलंधजीवियं जोव्वणं च कुसुमसमं । सोक्खं च जं अणिचं तिण्णिवि तुरमाणभोज्जाइं" तदेवं मत्वा अहोविहारायोत्थानं श्रेय इति॥येपुनःसंसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवंतीत्याह मू (६७)जीविए इहजे पमत्ता सेहताछेता भेतालुंपित्ता विलुपित्ताउद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुब्बिं पोसेति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तवताणाए वा सरणाए वा, तुमंपितेसिं नालं ताणाए वा सरणाए वा। दृ येतुक्योऽतिक्रमणंनावगच्छन्ति, ते 'इहे'त्यस्मिन्नसंयमजीविते 'प्रमत्ताः' अध्युपपन्ना विषयकषायेषुप्रमाद्यन्ति,प्रमत्ताश्चहर्निशंपरितप्यमानाःकालाकालसमुत्थायिनःसन्तः सत्त्वोपघातकारिणीः क्रियाः समारम्भत इति, आह च-‘से हंता' इत्यादि, से' इत्यप्रशस्तगुण- मूलस्थानवान्विषयाभिलाषी प्रमत्तः सन्स्थावरजङ्गमानामसुमताहन्ता भवतीति,अत्र चबहुवचनप्रक्रमेऽपि जात्यपेक्षयैकवचननिर्देश इति, तथाछेत्ताकर्णनासिकादीनां भेत्ता शिरोनयनोदरादीनांलुम्पयिता ग्रन्थिच्छेदादिभिः विलुम्पयिता ग्रामघातादिभिः अपद्रावयिता प्राणव्यपरोपको विषशस्त्रादिभिः अवद्रापयिता वा, उत्रासको लोष्टप्रक्षेपादिभिः । स किमर्थं हननादिकाः क्रियाः करोतीत्याह'अकई' इत्यादि, अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्या-मीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्तते । स एवं क्रूरकर्मातिशयकारी समुद्रलअनादिकाः क्रियाः कुर्वन्नप्यलाभोदयादपगतसर्वस्वः किंभूतो भवतीत्याह __ "जेहिं वा' इत्यादि, वाशब्दो भिन्नक्रमः पक्षान्तरद्योतकः ‘यैः'मातापितृस्वजनादिभिः सार्द्ध संवसत्यसौ त एव वा'ण'मिति वाक्यालङ्कारे 'एकदे'त्यर्थनाशाद्यापदि शैशवे वा निजाः' आत्मीया बान्धवाः सुह्यदो वा 'पुचि' पूर्वमेव 'तं' सोपायक्षीणं पोषयन्ति स वा प्राप्तेष्टमनो रथलाभः संस्तानिजान् पश्चात् 'पोषयेद्' अर्थदानादिना सन्मानयेदिति । तेचपोषकाः पोष्यावा तव आपद्गतस्य न त्राणाय भवन्तीत्याह-नालं' इत्यादि, 'ते' निजा मातापित्रादयः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy