________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः १
११३
स्तदपवादाञ्जनायाचष्टे, आह च- 'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजर्जरितदेहस्तान्निजाननेकदोषोद्घट्टनतया परिवदेत्-निन्देद्, अथवा खिद्यमानार्थतया तानसादवगायति-परिभवतीत्यर्थः । येऽपि पूर्वकृतधर्म्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्ति, आह च- 'नाल' मित्यादिनालं न समर्थाः तेपुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थं त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यस्तरपतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्गं पर्वतः पुरुषो वेति, एतदुक्तं भवति- जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च"जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके '
119 11
"
स
इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-' से न हस्साए ' इत्यादि, 'स' जराजीर्णविग्रहो न हास्यायभवति, तस्यैव हसनीयत्वात् न परान् हसितुं योग्यो भवतीत्यर्थः, च समक्षं परोक्षं वा एवमभिधीयते जनैः किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै न चलङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते न लज्जते भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गूहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्म्मवलीकः स नैव शोभते, उक्तं च11911
॥२॥
"न विभूषणमस्य युज्यते, न च हास्ये कुत एव विभ्रमः ? | अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम
जं जं करेइ तं तं न सोहए जोव्वणे अतिक्कं ते । पुरिसस्स महिलियाई व एक्कं धम्मं पमुत्तूणं'
"
- गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते
मू (६६) इच्छेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि नो पमायए वओ अच्चेति जोव्वणं च ।
वृ अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह 'इच्चेव' मित्यादि, ‘इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै नरत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्म्मफलं प्राणिनामित्येवं मत्वा समुत्थितः सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो - इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहो विहारो यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रभादयेदित्त्युत्तरेण सण्टङ्कः, किंच-‘अंतरंचे’त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्र सुकुलोत्पत्तिबोधिलाभसर्वात्यादिकं, चः समुच्चये, खलुरवधारणे, 'इम' मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदर्थ्याभिधीयतेतवायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीय सुदुर्लभ एवेति, अतस्तमवसरं 'संप्रेक्ष्य' पर्यालोच्य धीरः सन्मुहूर्तमप्ययेकंनो 'प्रमादयेत्' प्रमादवशगो
[13]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org