________________
११२
आचाराङ्ग सूत्रम् १/-/२/१/६५ नियए पच्छा परिवएज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमपि तेसिं नालं ताणाए वा सरणाए वा, से न हासाय न किड्डाए न रतीएन विभूसाए
वृ वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको 'यैः' पुत्रकलत्रादिभिः 'सार्द्ध' सह संवसति, त एव भार्यापुत्रादयोणमिति वाक्यालङ्कारे 'एकदे' ति वृद्धवस्थायां नियगा' आत्मीया ये तेन समर्थावस्थां पूर्वमेव पोषिताः ते तं 'परिवदंति' परि-समन्ताद्वदन्ति यथाऽयं न म्रियते नापि मञ्चकं ददाति, यदिवा परिवदन्ति परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह च“वलिसन्ततमस्थिशेषितं, शिथिलस्नायुघृतं कडेवरम् ।
11911
""
स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ? गोपालबालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकम् - कौशाम्ब्यां नगर्यां अर्थवान् बहुपुत्रो धनो नाम सार्थवाहः, तेन चैकाकिना नानाविधैरूपायेः स्वापतेयमुपार्जितं तच्चाशेषदुःखितबन्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशादवृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निचिक्षेप । तेऽपि वयमनेनेदशीमवस्थां नीताः सर्वजनाग्रेसरा विहिता इति कृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन्, ता अप्युद्वर्त्तनस्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः । ततो गच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरवृद्धेच विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेष श्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः,
असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्वसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षुण्णान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्यः क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपह्नुते, यदि भवतामप्यस्माकमुपर्यविम्भस्ततोऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किञ्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्द्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपि यथावसरेतद्द्मण्डनस्वभाववतामाचचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनावगीतो वाङ्मत्रेणापि केनचिदप्यननुवत्यमानः सुखितेषु दुःखितः कष्टतरामायुः शेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्यैकनिष्ठलोकात्परिभवमाप्नोतीति, आह
“गात्रं सङ्कुचितं गतिर्विगहलिता दन्ताश्च नाशं गता, दृष्टिर्भश्यति रूपमेव हसते वक्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते "
इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेता
For Private & Personal Use Only
11911
Jain Education International
www.jainelibrary.org