________________
श्रुतस्कन्धः - १, अध्ययनं २, उद्देशकः १
·
येनोपकारः क्रियते तदुपकरणं, तञ्चेन्द्रियकार्यसमर्थं, सत्यामपि निर्वृत्तावनुपहतायां मसूराकृतिरूपायां तस्योपघातान्न पश्यति, तदपि निर्वृत्तिवद् द्विधा, तत्राभ्यन्तरमक्ष्णस्तावत् कृष्णशुल्कमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति
भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धिर्ज्ञानदर्शनावरणीय क्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्ति प्रति व्याप्रियते, तन्निमित्त आत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निर्वृत्त्युपकरणोपयोगाः, सत्यां च निर्वृत्तावुपकरणोपयोगी, सत्युपकरण उपयोग इति एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्याति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णान्ति, जघन्यतस्त्वङ्गुलासङ्घयेयभागविषयत्वं सर्वेषाम् अत्र च 'सोयपरिण्णाणेहिं परिहायमाणेही 'त्यादि य उत्पत्तिं प्रति व्यत्येनेन्दियाणामुपन्यासः स एवमर्थं द्रष्टव्यः - इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति । श्रोत्रादिविज्ञानानि च क्योऽतिक्रमे परिहीयन्ते, तदेवाह 'अभिकंत 'मित्यादि, श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः 'अभिकंतं च खलु वयं स पेहाए' तत्र प्राणिनां कालकता शरीरावस्था यौवनादिर्वयः तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम्, इह हि चत्वारि वयांसि - कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च
अथवा
11911
999
"प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ?
77
तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि - कौमारयौवनस्थविरत्वभेदाद्, उक्तं च
"पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति " अन्यथा वा त्रीणि वयसि, बालमध्यवृद्धत्वभेदात्, उक्तं च11911 षोडशाद्मवेद्वालो, यावत्क्षीरान्नवर्त्तकः । मध्यमः सप्तति यावत्परतो वृद्ध उच्यते '
??
एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्भ्राणरसनस्पर्शनविज्ञानेव्यस्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैर्वा मीढ्यमापद्यते, वयश्चातिक्रान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेणअत्यर्थं मौढ्यमापद्यत इति, आह च- 'ततो से' इत्यादि, 'तत' इति तस्मदिन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स इति प्राणी 'एकदे 'ति वृद्धावस्थायां मूढभावो मूढत्वं किंकर्त्तव्यताभावमात्मनो जनयति, अथवा 'से' तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति । स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह
मू. (६५) जेहिं वा सद्धिं संबसति ते वि णं एगदा नियगा पुतिं परिचयंति सोऽवि ते
For Private & Personal Use Only
www.jainelibrary.org
11911
-
Jain Education International