________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : २
१२३
यौगपद्याशेषसंशीतिच्छेत्र्या प्रकर्षेण वेदितः कथितः प्रतिपादित इतियावत्, एवम्भूतं च मार्गे ज्ञात्वा किं कर्त्तव्यमित्याह - 'जहत्थे'; इत्यादि, तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् 'कुशलो' निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं ‘नोपलिम्पयेः’न तत्र संश्लेषं कुर्या इति, विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्म्मणा यथा नोपलिप्यसे तथा सर्वेः प्रकारैः कुर्यास्त्वम् । इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
अध्ययनं -२ उद्देशकः २ समाप्तः -: अध्ययनं -२, उद्देशकः-३ :
वृ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमाभिसम्बन्धःइहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चादढत्वमुक्तं तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यात् अतस्तद्वयुदासार्थमिदमभिधीयते । अस्य चानन्तरसूत्रेण सम्बन्धः- 'जहेत्थ कुसले नोवलिंपेज्जासि' कुशलो निपुणः सन्नस्मिन्नुञ्चैर्गोत्रभिमाने यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वं, किं मत्वा ?, इत्यतस्तदभिधीयते
यू (७८) से असई उच्चागोए असई नीआगोए, नो हीणे नो अइरित्ते, नोऽपीहए, इय संखाय को गोयावाई को माणावाई ?, कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं ।
वृ 'से असई उच्चागोए असई नी आगोएत्ति' 'स' इति ससार्यसुमान् 'असकृद्' अनेकशः उच्चैर्गोत्रे मानसत्कारर्हे, उत्पन्न इति शेषः, तथा असकृन्नी चैर्गोत्रे सर्वलोकावगीते, पौनःपुन्येनोत्पत्र इति, तथाहि नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्म्मा संस्तथाविधाध्यवसायोपपन्नः आहारकशरीरतत्सङ्घातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वय नरकगत्यानुपूर्वीद्वय वैक्रियचतुष्ट्यरूपाएता द्वादशकर्म्मप्रकृतीर्निलेप्याशीतिसत्कर्म्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गौत्रमुद्वलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्त्ताऽपीति, ततोऽप्युद्वृ त्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिर्लेपिते तूचैर्गोत्रे द्वितीयचतुर्थौ भङ्गौ, तद्यथा - नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्म्मता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव,
तिर्यक्षूच्चैर्गोत्रस्योदयाभावादिति भावः, तदेवमुचैर्गोत्रोद्वलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यश्वास्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासङ्घयेयभागसमयसंख्यान् पुद्गलपरावर्त्तानिति, कीशः पुनः पुद्गलपरावर्त्त इति ? उच्यते, यदौदारिकवैक्रि यतैजसभाषानापानमनः कर्मसप्तकेन संसारोदरविवरवर्त्तिनः पुद्गलाः आत्मसात्परिणामिता भवन्ति तदा पुद्गलपरावर्त्त इत्येके, अन्ये तु द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा वर्णयन्ति, प्रत्येकमसावपि बादरसूक्ष्मभेदात् द्वैविध्यमनुभवति, तत्र द्रव्यतो बादरो यदौदारिकवैक्रि यतैजसकार्म्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org