________________
मूलं-७७ जहन्त्रेणं अनंते भावे जाणइ पासइ उक्कोसेणविअनंत भावे जाणइ पासइ, सव्वभावाणमनंतभागं जाणइ पासइ॥
व. तदवधिज्ञानं 'समासतः' संक्षेपेण 'चतुम्विधं' चतुष्प्रकारं प्रज्ञप्तम्, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे, अवधिज्ञानी, जघन्येनापिभावप्रधानोऽयं निर्देशः सर्वजघन्यतयाऽपि अनन्तानि रूपिद्रव्याणि जानाति पश्यति, तानि च तैजसभाषाप्रायोग्यवर्गणापान्तरालवर्तीनि द्रव्याणि, उत्कर्षतः पुनः सर्वाणि रूपिद्रव्याणि बादरसूक्ष्माणि जानाति पश्यति, तत्र ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यपरिच्छेदात्मकं, आह च चूणिकृत्-जाणइत्ति नाणं, तत्थ जं विसेसग्गहणं तन्नाणं, सागारमित्यर्थः, पासइत्ति दंसणं, जं सामन्नग्गहणं तं दंसणमनागारमित्यर्थः, आह-आदौ दर्शनं ततो ज्ञानमिति च क्रमः, तत एनं क्रमं परित्यज्य किमर्थं प्रथमं जानातीत्युक्तम्?, उच्यते, इह सर्वा लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते, अवधिरपिलब्धिरुपवर्ण्यते, ततः स प्रथममुत्पद्यमानो ज्ञानरूप एवोत्पद्यते न दर्शनरूपः, ततः क्रमणोपयोगप्रवृत्तेर्ज्ञानोपयोगानन्तरं दर्शनरूपोऽपीति प्रथमतो ज्ञानमुक्तं पश्चाद्दर्शनम्, अथवा इहाध्ययने सम्यग्ज्ञानं प्ररूपयितुमुपक्रान्तं, यतोऽनुयोगप्रारम्भेऽवश्यं मङ्गलाय ज्ञानपञ्चकरूपो भावनन्दिर्वक्तव्य इति तत्प्ररूपणार्थमिदमध्ययनमारब्धं, ततः सम्यग्ज्ञानमिहप्रधानं, न मिथ्याज्ञानं, तस्यमाङ्गल्यहेतुत्वायोगदा, दर्शनंत्ववधिज्ञानविभङ्गसाधारणमिति तदप्रधान, प्रधानानुयायी च लौकिको लोकोत्तरश्च मार्गः, ततः प्रधानत्वात् प्रथमं ज्ञानमुक्तं पश्चाद्दर्शनमिति ।
तथा क्षेत्रोऽवधिज्ञानी जघन्येनांगुलासङ्घयेयभागमुत्कर्षतोऽसङ्ख्येयानि अलोके लोकप्रमाणानि चतुर्दशरज्ज्वात्मकानि खण्डानि जानाति पश्यति।।
कालतोऽवधिज्ञानी जघन्येनावलिकाया असङ्घयेयभागमुत्कर्षतोऽसङ्ख्येया उत्सप्पिण्यवसप्पिणी:-असङ्घयेयावप्पिण्युत्सप्पिणीप्रमाणमतीतमनागतं च कालं जानाति पश्यति। __ भावतोऽवधिज्ञानी जघन्येनानन्तान् भावान्-पर्यायान् आधारद्रव्यानन्तत्वात्, नतु प्रति द्रव्यं, प्रतिद्रव्यं सङ्घयेयानामसङ्खयेयानां वा पर्यायाणां दर्शनात्, उक्तं च
___ “एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स।
उक्कोसमसंखेज्जे संखिज्जे पेच्छइ कोई ।।' उत्कर्षतोऽप्यनन्तान् भावान् जानाति पश्यति, केवलं जघन्यपदादुत्कृष्टपदमनन्तगुणम्, आह च चूर्णिकृत्-‘जहन्नपयाओ उक्कोसपयमनंतगुणमिति' 'सव्वभावाणमनंतभागं जाणइ पासइ'त्ति तानपि चोत्कृष्टपदवर्त्तिनो भावान् ‘सर्वभावनां' सर्वपर्यायाणामनन्तभागकल्पान् जानाति पश्यति । तदेवमवधिज्ञानां द्रव्यादिभेदतोऽप्यभिधाय साम्प्रतं संग्रहगाथामाहमू. (७८) ओही भवपच्चइओ गुणपच्चइओ अ वण्णिओ दुविहो।
तस्स य बहू विगप्पा दव्वे खित्ते अ काले अ॥ वृ. एषः अनन्तरोऽवधिर्भवप्रत्ययतो गुणप्रत्ययतश्च 'वर्णिणतो' व्याख्यातः, पाठान्तरं 'वण्णिओ दुविहो'त्ति वणितो 'द्विविधो' द्विप्रकारः, तस्य च भवगुणप्रत्ययतो द्विविधस्यापि बहवो विकल्पा-भेदाः,तद्यथा-द्रव्ये द्रव्यविषयाः कस्यापि कियद्रव्यविषय इति द्रव्यभेदात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org