SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९४ नन्दी-चूलिकासूत्रं अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्याविरतसम्यग्द्रष्टेर्वर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य' उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणमविरतसम्यग्दृष्टेरवसेयं, तथा संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः समन्तादवधिः 'परिहीयते' पूर्वावस्थातो हानिमुपगच्छति, तदेतद्धीयमानकमवधिज्ञानम्। मू. ( ७५ )से किंतं पडिवाइओहिनाणं?, पडिवाइओहिनाणं जहन्नेणं अंगुलस्सअसंखिज्जयभागं वा संखिज्जभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूअं वा जूयपुहुत्तं वा जवं वा जवपुहुत्तं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहुत्तं वा विहत्थिं वा विहत्थिपुहुत्तं वा रयणिं वा रयणिपुहुत्तं वा कुच्छि वा कुच्छिपुहत्तं वा धणुं वा धनुपुहत्तं वा गाउअंवा गाउपुहुत्तं वा जोअणंवा जोअणपुहुत्तं वा जोअणसयंवा जोयणसयपुहत्तं वा जोयणसहस्संवा जोयणसहस्सपहत्तं वा जोअणलक्ख वा जोअणलक्खपुहत्तं वा उक्कोसेणं लोगं वा पासित्ता णं पडिवइज्जा, से तं पडिवाइओहिनाणं॥ वृ.अथ किं तत्प्रतिपातिअवधिज्ञानं?, सूरिराह-प्रतिपात्यवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अंगुलस्यासंख्येयभागमात्रं संख्येयभागमात्रं वा वालाग्र वा वालाग्रपृथक्त्वं वा लिक्षां वा-वालाग्राष्टकप्रमाणां लिक्षापृथक्त्वं वा, यूकां वा लिक्षाष्टकमानां यूकापृथक्त्वं वा, यवं वा-यूकाष्टकमानं यवपृथक्त्वं वाअंगुलं वा अंगुलपृथक्त्वा , एवं यावदुत्कर्षेण सर्वप्रचुरतया लोकं 'दृष्ट्वा उपलभ्य 'प्रतिपतेत्' प्रदीप इव नाशमुपायायात्। तस्य तथाविधक्षयोपशमजन्यत्वात्, तदेतत् प्रतिपात्यवधिज्ञानं, शेषं सुगम, नवरं 'कुक्षिः' द्विहस्तप्रमाणा 'धनुः' चतुर्हस्तप्रमाणं, पृथक्त्वं सर्वत्रापि द्विप्रभृतिरा नवभ्य इति सैद्धान्तिक्या परिभाषया द्रष्टव्यम् । मू. (७६)से किं तं अपडिवाइ ओहिनाणं?, अपडिवाइ ओहिनाणं जेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ तेन परं अपडिवाइ ओहिनाणं, सेतं अपडिवाइ ओहिनाणं। वृ. अथ किं तदप्रतिपात्यवधिज्ञानं ?, सूरिराह-अप्रतिपात्यवधिज्ञानं येनावधिज्ञानेन अलोकस्य सम्बन्धिनमेकमप्याकाशप्रदेशम्, आस्तांबहूनाकाशप्रदेशानित्यपिशब्दार्थः, पश्येत्, एतच्च सामर्थ्यमात्रमुपवर्ण्यते, न त्वलोके किञ्चिदप्यवधिज्ञानस्य दृष्टव्यमस्ति, एतच्च प्रागेवोक्तं, तत आरभ्याप्रतिपात्या केवलप्राप्तेरवधिज्ञानम्, अयमत्र भावार्थ:-एतावति क्षयोपशमे सम्प्राप्ते सत्यात्मा विनिहतप्रधानप्रतिक्षयोधसंघातनरपतिरिव न भूयः कर्मशत्रुणा परिभूयते, किन्तु समासादितैतावदालोकजयोऽप्रतिनिवृत्तः शेषमपि कर्मशत्रुसङ्घातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति । तदेतप्रतिपाति अवधिज्ञानं। तदेवमुक्ताः षडप्यवधिज्ञानस्य भेदाः, सम्प्रतिद्रव्याद्यपेक्षयाऽवधिज्ञानस्य भेदान् चिन्तयति मू. (७७)तं समासओ चउब्विहं पन्नत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं ओहिनाणी जहन्नेणं अणंताई रूविदव्वाइं जाणइ पासइ उक्कोसेणं सव्वाइं रूविदव्वाईजाणइ पासइ, खित्तओ नं ओहिनाणी जहनेणं अंगुलस्स असंखिज्जइभागंजाणइ पासइ उक्कोसेणं असंखिज्जाइं अलोगे लोगप्पमाणमित्ताइं खंडाई जाणइ पासइ, कालओ णं ओहिनाणी जहन्नेणं आवलिआए असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओ अवसप्पिणीओ अईयमनागयं च कालं जाणइ पासइ, भावओ णं ओहिनाणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy