________________
९६
नन्दी-चूलिकासूत्रं भेदः, तथा क्षेत्रे-क्षेत्रविपया अंगुलासङ्ख्येयभागादिक्षेत्रभेदात्, काले-कालविषया आवलिकाऽसङ्ख्येयभागादिकालभेदात्, चशब्दाद्भावविषयाश्च कस्यापि कियन्तः पर्याया विषय इति भावभेदाभेदः।
तत्र जघन्यपदे प्रतिद्रव्यं चत्वारो वर्णगन्धरसस्पर्शलक्षणाः पर्याया 'दो पज्जवे दुगुणिए सवजहन्नेण पेच्छए ते उ। वनाईया चउरो' इति वचनप्रामाण्यात्, मध्यमतोऽनेकसङ्ख्यभेदभिन्ना उत्कर्षतः प्रतिद्रव्यमसङ्ख्येयान् न तु कदाचनाप्यनन्तान्, यत आह भाष्यकृत-'नाणंते पेच्छइ कयाइ' । तदेवमवधिज्ञानमभिधाय साम्प्रतं ये बाह्यावधयो ये चाबाह्यावधयः तानुपदर्शयतिमू. (७९) नेरेइयदेव तित्थंकरा य ओहिस्सऽबाहिरा हुति।
पासंति सव्वओ खलु सेसा देसेण पासंति ॥ वृ. नैरयिकाश्च देवाश्च तीर्थंकराश्च नैरयिकदेवतीर्थङ्ककराः, तीर्थकरा इत्यत्र 'तीर्थांच्चैक' इति वचनात् स्वप्रत्यये तीर्थशब्दान्मन्, चशब्दोऽवधारणे, तस्य च व्यवहितः प्रयोगस्तं च दर्शयिष्यामः, नैरयिकदेवतीर्थङ्करा 'अवधेः' अवधिज्ञानस्याबाह्या एव भवन्ति, बाह्या न कदाचनापि भवन्तीति भावः, सर्वतोऽवभासकावध्युपलब्धक्षेत्रमध्यवर्तिनः सदैव भवन्तीत्यर्थः । तथा पश्यन्ति 'सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽवधारणार्थः, सर्वास्वेव दिग्विदिक्ष्विति, आह-अवधेरबाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्यार्थस्य लब्धत्वात् सर्वतःशब्दग्रहणमतिरिच्यते, उच्यते, अभ्यन्तरत्वाभिधानेऽपि सर्वतोदर्शनाप्रतीतेः, न खलु सर्वाभ्यन्तरावधिः सर्वतः पश्यति, कस्यचिद्दिगन्तरालादर्शनात्, विचित्रत्वादवधेः, ततः सर्वतोदर्शनख्यापनार्थं पासंति सवओ खलु' इत्युक्तम्, आह च भाष्यकृत्
"अभितरत्ति भणिए भन्नइ पासंति सवओ कीस? ।
ओदइ जमसंततदिसो अंतोवि ठिओ न सव्वत्तो।" 'शेषाः' तिर्यङ्नरा देशेन-एकदेशेन पश्यन्ति, 'सर्वं वाक्यं सावधारणमिष्टितश्चावधारणविधिः' तत एवमवधारणीयं-शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति, अथवा अन्यथा व्याख्यायते-तदेवमधिज्ञानमभिधाय साम्प्रतं ये नियतावधयो ये चानियतावधयस्तान् प्रतिपादयति-नैरयिकदेवतीर्थंकरा एवावधेरबाह्या भवन्ति, किमुक्तं भवति?, नियतावधयो भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, एवं चाभिहिते सति संशयः-किं ते देशेन पश्यन्ति उत सर्वतः?, ततः संशयापनोदार्थमाह-'पासंती'त्यादि 'सर्वतः खलु' सर्वत एव तेनावधिना ते नैरयिकादयः पश्यन्ति न त देशतः।।
अत्र पर आह-ननु ‘पश्यन्ति सर्वतः खल्वि'त्येतावदेवास्ताम्, अवधेरबाह्या भवन्तीत्येतत् नयुक्तं, यतो नियतावधित्वप्रतिपादनार्थमिदमुच्यते, तच्च नियतावधित्वं देवनारकाणां 'दोण्हं भवपच्चइयं, तंजहा-देवाणं नेरइयाणं चेति वचनसामर्थ्यात् सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वितागमस्यातिप्रसिद्धत्वादिति, अत्रोच्यते, इह यद्यापि दोण्हं भवपच्चइय'मित्यादिवचनतो नैरयिकादीनां नियतावधित्वं लब्धं, तथापि सर्वकालं तेषां नियतोऽवधिरिति न लभ्यते, ततः सर्वकालं नियतावधित्वख्यापनार्थमधेरबाह्या भवन्तीत्युक्तम्।
आह-यद्येवं तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न छद्मस्थकालस्यैव तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org