SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मूलं-६६ नाणठिओ केवलमंतोमुहूत्तमेत्तेणं ।' एवं तावज्जघन्यमुत्कृष्टं चावधिक्षेत्रमुक्तं, सम्प्रति मध्यम प्रतिपिपादयिषुरेतावत्क्षेत्रोपलम्भे एतावत्कालोपलम्भः एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रकटनार्थं गाथाचतुष्टयमाहमू.(६७) अंगुलमावलिआणं भागमसंखिज्ज दोसु संखिज्जा। अंगुलमावलिअंतो आवलिआ अंगुलपुतं॥ वृ.अंगुलमिह क्षेत्राधिकारात् प्रमाणांगुलमभिगृह्यते, अन्येत्वाहुः-अवध्यधिकारादुत्सेधांगुलमिति, आवलिका असंख्येयसमयात्मिका, अंगुलं चावलिका चांगुलावलिके तयोरंगुलावलिकयोर्भागमसंख्येयमसंख्येयं पश्यत्यवधिज्ञानी, इदमुक्तं भवति-क्षेत्रतोऽगुंलासंख्येयभागमात्रं पश्यन् कालत आवलिकाया असंख्येयमेव भागमतीतमनागतं च पश्यति, उक्तं च "खेत्तमसंखेज्जंगुलभागं पासे तमेव कालेणं। ___ आवलियाए भागंतीयमनायं च जाणाइ।" । आवलिकायाश्चासंख्येयं भागं पश्यन् क्षेत्रतोऽगुलासंख्येयभागं पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्त्तव्या, क्षेत्रकालदर्शनं चोपचारेण द्रष्टव्यं, न साक्षात्, न खल क्षेत्रं कालं वा साक्षादवधिज्ञानी पश्यति, तयोरमूर्त्तत्वात्, रूपिद्रव्यविषयश्चावधिः, तत एतदुक्तं भवतिक्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायास्तान् पश्यतीति, उक्तं च "तत्थेव य जे दवा तेसिंचिय जे हवंति पज्जाया। इय खेत्ते कालंमि य जोएज्जा दवपज्जाए।।१॥" एवं सर्वत्रापि भावनीयम्, क्रिया च गाथाचतुष्टये स्वयमेव योजनीया। तथा द्वयोरंगुलावलिकयोः सङ्खयेयौ भागौ पश्यति, अंगुलस्य सङ्खयेयभागं पश्यन् आवलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः । तथा 'अंगुलम्' अंगुलमात्रं क्षेत्रं पश्यन् 'आवलिकान्तः' किञ्चिदूनामावलिकां पश्यति, आवलिकां चेत् कालतः पश्यति तर्हि क्षेत्रतोऽगुलपृथक्त्वंअंगुलपृथक्त्वपरिमाणं क्षेत्रं पश्यति, उक्तं च "संखेज्जंगुलभागे आवलियाएवि मुणइ तइभागं। अंगुलमिह पेच्छंतो आवलियंतो मुणइ कालं।" आवलियं मुणमाणो संपुन्नं खेत्तमंगुलपुहुत्त" मिति, पृथक्त्वं द्विप्रभृतिरा नवभ्य इति । मू.(६८) हत्थंमि मुहत्तंतो दिवसंतो गाउअंमि बोद्धव्वो। जोयण दिवसपुहुत्तं पक्खंतो पन्नवीसाओ। वृ.तथा 'हस्ते' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो 'गव्यूते' गव्यूतविषयो द्रष्टव्यः, तथा योजनं' योजनमात्र क्षेत्रं पश्यन् कालतो दिवसपृथक्त्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यतीत्यर्थः, तथा 'पक्षान्तः' किञ्चिदूनं पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति। मू.(६९) भरहमि अद्धमासो जंबूद्दीवंमि साहिओ मासो। _ वासं च मनुअलोए वासपुहुत्तं च रुअगंमि॥ वृ. भरते' सकलभरतप्रमाणक्षेत्रावधौ कालतोऽर्द्धमास उक्तः, भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं चार्द्धमासं पश्यतीत्यर्थः, एवंजम्बूद्वीपविषयेऽवधौ साधिको मास: कालतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy