SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ९० नन्दी-चूलिकासूत्रं __ "उक्कोसिया य सुहुमा जया तया सवबहुअगनिजीवा" इति, 'निरंतरमिति' क्रियाविशेषणं यावत्परिमाणं क्षेत्रं भृतवन्तः, एतदुक्तं भवतिनैरन्तर्येण विशिष्टसूचीरचनया यावद् भृतवन्तः, भृतवन्त इती च भूतकालनिर्देशः अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा अस्यामवसप्पिण्यां सम्भवन्ति स्मेति ख्यापनार्थं, इदं चानन्तरोदितं क्षेत्रमेकदिक्कमपि भवति तत आहसर्वदिक्कं, अनेन सूचीभ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववधिश्च परमावधिः, एतावदनन्तरोदितं सर्वबह्वनलजीवसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य निर्दिष्टः' प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः, एतावत् क्षेत्रं परमावधेर्भवतीत्यर्थः, किमुक्तं भवति?, सर्वबह्वग्निजीवा निरन्तरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिक्कंभृतवन्तः एतावति क्षेत्रे यान्यवस्थितानिद्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः, ___ अयमिह सम्प्रदाय:-सर्वबह्वग्निजीवाः प्रायोऽजितस्वामितीर्थकृत्काले प्राप्यन्ते, तदारम्भकमनुष्यबाहुल्यसम्भवात, सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रेव विवक्ष्यन्ते, ततश्च सर्वबहवोऽनलजीवा भवन्ति, तेषां स्वबुद्ध्या षोढाऽवस्थानं परिकल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्त्रो घन इति प्रथमं, स एव घनो जीवैः स्वावगाहनादिभिरिति द्वितीयम्, एवं प्रतरोऽपि द्विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पञ्च प्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात्, षष्ठस्तु प्रकार: सूत्रादेशः उक्तं च "एकेक्कागासपएसजीवरयणाए सावगाहे य। चउरंसं घण पयरं सेढी छट्ठो सुयादेसो॥१॥" ततश्चासौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्रविभागानलोके व्याप्नोति, एतावत्क्षेत्रमवधेरुत्कृष्टमिति, उक्तं च "निययावगाहणागनिजीवसरीरावली समंतेणं। भामिज्जइ ओहिनाणिदेहपज्जंतओ सा य॥१॥ अइगंतूनमलोगे लोगागासप्पमाणमेत्ताई। ठाइ असंखेज्जाइं इदमोहिक्खेत्तमुक्कोसं ।।२।।" इदं च सामर्थ्यमात्रमुपवर्ण्यते, एतावति क्षेत्रे यदि दृष्टव्यं भवति तर्हि पश्यति, यावता तन्ना विद्यते, अलोके रूपिद्रव्याणामसम्भवात्, रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो--यावदद्यापि परिपूर्णमपि लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोके प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा २ लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान् पश्यति, यावदन्ते परमाणुमपि, उक्तं च "सामत्थमेत्तमुत्तं दट्ठवं जइ हवेज्ज पेच्छेज्जा। न उतं तत्थत्थि जओ सो रूविनिबंधणो भणिओ॥१॥ . वडतो पुण बाहिं लोगत्थं चेव पासई दवं। सुहुमयरं २ परिमोही जाव परमाणू ॥२।।" परमावधिकलितश्च नियमादन्तर्मुहूर्तमात्रेण केवलालोकलक्ष्मीमालिङ्गति, उक्तं च-'परमोहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy