________________
८९
मूलं-६५ पनकत्वेनोत्पादः ?, किं वा त्रिसमयाहारकत्वं परिगृह्यते?, उच्यते, इह योजनसहस्त्रायामो मत्स्यः, स किल त्रिभिः समयैरात्मानं संक्षिपति महतः प्रयत्नविशेषात्, महाप्रयत्नविशेषारूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणोऽतीव सूक्ष्मामारभते ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मतमावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेष्वतिस्थूर: त्रिसमयाहारकस्तु योग्यः ततः त्रिसमयाहारकग्रहणं, उक्तं च -
"मच्छो महल्लकाओ संखेत्तो जो उ तीहि समएहिं। स किर पयत्तविसेसेण सहमोगाहणं कुणइ ॥१॥ सण्हयरा सण्हयरो सुहुमो पणओ जहन्नदेहो य। स बहुविसेसविसिट्ठो सण्हयरो सवदेहेसु ।।२।। पढमबीएऽतिसण्हो जायइथूलो चउत्थयाईसुं।
तइयसमयंमि जोगो गहिओ तो तिसमयहारो॥३॥". अन्ये तु व्याचक्षते-'त्रिसमयाहारकस्य'ति आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समय: सूचीसंहरणोत्पत्तिदेशागमनविषयः, एवं त्रयः समया विग्रहगत्यभावाश्चेतेषु त्रिष्वपि समयेष्वाहारकः, तत उत्पादसमय एव त्रिसमयाहारक: सूक्ष्मपनकजीवो जघन्यावगाहनश्च, ततः तच्छरीरमानं जघन्यमवधेः क्षेत्रं, तच्चायुक्तं, यतस्त्रिसमयाहारकस्येति विशेषणं पनकस्य, नच मत्स्यायामप्रतरसंहरणसमयौ पनकभवस्य सम्बन्धिनौ, किन्तु मत्स्यभवस्य, तत उत्पादसमयादारभ्य त्रिसमयाहारकस्येति द्रष्टव्यम्, नान्यथा।
एतावत्प्रमाणं जघन्यं क्षेत्रमवधेः तैजसभाषाप्रायोग्यवर्गणापान्तरालवर्त्तिद्रव्यमालम्बते 'तेयाभासादवाणमंतरा एत्थ लहइ पट्ठवओ' इति वचनात्, तदपि चालम्ब्यमानं द्रव्यं द्विधागुरुलघु अगुरुलघु च, तत्र तैजसप्रत्यासन्नं गुरुलघु भाषाप्रत्यासन्नं च्मगुरुलघु, तद्गतांश्च पर्यायान् चतुःसंख्यानेव वर्णरसगन्धस्पर्शलक्षणान् पश्यति न शेषान्, यत आह
"दवाइं अंगुलावलिसंखेज्जातीतभागविसयाई।
पेच्छइ चउग्गुणाई जहन्नओ मुत्तिमंताई।" अत्र 'जघन्यत' इति जघन्यावधिज्ञानी । तदेवं जघन्यमवधेः क्षेत्रमभिधाय साम्प्रतमुत्कुष्टभिधातुकाम आहमू.(६६) सव्वबहुअगनिजीवा निरंतरं जत्तियं भरिजंसु।
खित्तं सव्वदिसागं परमोही खेत्त निद्दिट्टो । वृ.यत: ऊर्ध्वमन्य एकोऽपि जीवो न कदाचनापि प्राप्यते सर्वबहवः सर्वबहवश्च ते अग्निजीवाश्च सूक्ष्मबादररूपाः सर्वबह्वग्निजीवाः, कदा सर्वबह्वग्निजीवा इति चेद्, उच्यते, यदा सर्वासु कर्मभूमिषु निर्व्याघातमग्निकायसमारम्भकाः सर्वबहवो मनुष्याः, ते च प्रायोऽजितस्वामितीर्थकरकाले प्राप्यन्ते, यदा चोत्कृष्टपदवर्तिनः सूक्ष्मानलजीवाः तदा सर्वबह्वग्निजीवाः,
"अव्वाघाए सव्वासु कम्मभूमिसु जया तयारंभा। सवबहवो मनुस्सा होंतिऽजियजिणिंदकालंमि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org