SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ९२ नन्दी-चूलिकासूत्रं विषयत्वेन बोद्धव्यः तथा मनुष्यलोकप्रमाणक्षेत्रविषयेऽवधौ वर्ष' संवत्सरमतीतमनागतं च पश्यति, तथा रुचकाख्ये रुचकाख्यबाह्यद्वीपप्रमाणक्षेत्रविषयेऽवधौ वर्षपृथक्त्वं पश्यति। मू.(७०) संखिज्जमि उकाले दीवसमुद्दाऽवि हुंति संखिज्जा। कालंमि असंखिज्जे दीवसमुद्दा उ भइअव्वा॥ वृ.तथा सङ्ख्यायत इति सङ्ख्येयः, सच वर्षमात्रोऽपि भवति ततः तुशब्दो विशेषणार्थः, किं विशिनष्टि?-सङ्खयेयकालो वर्षसहस्त्रात्परो वेदितव्यः, तस्मिन् सङ्खयेये कालेऽवधिगोचरेसति क्षेत्रतः तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्राः तेऽपि सङ्ख्यैया भवन्ति, अपिशब्दात् महानेकोऽपि महत एकदेशोऽपि, किमुक्तं भवति?-सङ्ख्येये कालेऽवधिना परिच्छिद्यमाने क्षेत्रमप्यत्रत्यप्रज्ञापकापेक्षया सङ्खयेयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, ततो यदि नामात्रत्यस्यावधिरुत्पद्यते तहि जम्बूद्वीपादारभ्य सङ्ख्येया द्वीपसमुद्रास्तस्य परिच्छेद्याः, अथवा बाह्ये द्वीपे समुद्रे वा सङ्घयैययोजनविस्तृते कस्यापि तिरश्चः सङ्ख्येयकालविषयोऽवधिरुपद्यते तदास यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वा पश्यति, यदि पुनरसंख्येययोजनाविस्तृते स्वयम्भूरमणादिके द्वीपे समुद्रे वा संख्येयकालविषयोऽवधिः कस्याप्युत्पद्यते तदानीं स प्रागुक्तपरिमाणं तस्यद्वीपस्य समुद्रस्य वा एकदेशं पश्यति इहत्यमनुष्यबाह्यावधिरिव कश्चित्, तथा कालेऽसंख्येये पल्योपमादिलक्षणे अवधेविषये सति तस्यैव संख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्राः 'भाज्या' विकल्पनीया भवन्ति, कस्यचिदसङ्खयेयाः कस्याचित्सवयेयाः कस्यचिदेकदेश इत्यर्थः, यदाइहमनुष्यस्यासङ्ग्येयकालविषयोऽवधिरुत्पद्यते तदानीमसङ्ख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुनर्बहिद्वीपे समुद्रे वा वर्तमानस्य कस्यचित् तिरश्चोऽसङ्ख्येयकालविषयोऽवधिरुत्पद्यते तर्हितस्य सङ्घयेया द्वीपसमुद्राः, अथवा यस्य मनुष्यस्य सङ्ख्येयकालविषयो बाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्ख्या द्वीपाः, यदा पुनः स्वयम्भूरमणे द्वीपे समुद्रे वा कस्यचित्तिरश्चोऽवधिरसङ्ख्येयकालविषया जायते तदानीं तस्य स्वयम्भूरमणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः, स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा तदेकदेशो विषयः, क्षेत्रपरिमाणं पुनर्योजनापेक्षया सर्वत्रापि जम्बूद्वीपादारभ्यासङ्खयेयद्वीपसमुद्रपरिमाणमवसेयम्। मू.(७१) काले चउण्ह वुड्डी कालो भइअव्वु खित्तवुड्डीए। वुड्डिए दव्वपज्जव भइअव्वा खित्तकाला उ॥ वृ. तदेवं यथा क्षेत्रवृद्धौ कालवृद्धौ च यथा क्षेत्रवृद्धि तथा प्रतिपादितं, सम्प्रति द्रव्यक्षेत्रकालभावानां मध्ये यवृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह-'काले' अवधिगोचरे वर्द्धमाने 'चतुर्णां' द्रव्यक्षेत्रकालभावनां वृद्धिर्भवति, तथा क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिस्तस्यां सत्यां कालो 'भजनीयो' विकल्पनीयः कदाचिद्वर्द्धते कदाचित् न, क्षेत्रं ह्यत्यन्तसूक्ष्म, कालस्तु तदपेक्षया परिस्थूरः, ततो यदि प्रभूता क्षेत्रवृद्धिस्ततो वर्द्धते शेषकालं नेति, द्रव्यपर्यायौ तु नियमतो वर्द्रते, आह च भाष्यकृत "काले पवटुंमाणे सवे दव्वादओ पवटुंति। खेत्ते कालो भइओ वटुंति उदव्वपज्जाया॥" - तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोवृद्धौ सत्यां, सूत्रे विभक्तिलोपं: प्राकृतशैल्या, भजनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy