________________
८६
नन्दी-चूलिकासूत्रं च्युतदेवाः पञ्चमपृथिव्याः, अधस्तनमध्यमग्रैवेयकदेवा: षष्ठपृथिव्याः, उपरितनग्रैवेयकदेवाः सप्तमपृथिव्याः, अनुत्तरोपपातीनः सम्पूर्णलोकनालिं चतुर्दशरज्ज्वात्मिकामिति, उक्तंच प्रज्ञापनायां-"सोहम्मगदेवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जाव इमीसे रयणप्पभाए पुढवीए हेट्ठिल्ले चरमंते, तिरियं जाय असंखेज्जे दीवसमुद्दे, उटुंजावसगाइं विमाणाइं ओहिणा जाणंति पासंति। एवं ईसानगदेवावि, सणंकुमारदेवा एवं चेव, नवरं अहे जाव दोच्चाए सक्करप्पभाए पुढविए हिट्ठिल्ले चरिभंते, एवं माहिंददेवावि, बंभलोगलतगदेवा तच्चाए पुढवीए हिट्ठिल्ले चरिभंते, महासुकसहस्सारदेवा चउत्थीए पंकप्पभाए पुढवीए हेट्ठिले चरिमंते, आणयपाणयआरणअच्चुयदेवा अहे पंचमाए धूमप्पभाए पुढवीए हेट्ठिल्ले चरिमन्ते, हेट्ठिममज्झिमगेवेज्जगदेवा अहे जाव छट्ठिए तमाए पुढवीए हेट्ठिले चरिमंते, उवरिमगेवेज्जगदेवा नं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं अहे सत्तमाए पुढवीए हेट्ठिल्ले चरिमंते, तिरियं जाव असंखेज्जदीवसमुद्दे, उड्ढेजाव सगाइ विमाणाइं ओहिणा जाणंति पासंति। अनुत्तरोववाइया णं देवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति?, संभिन्नं लोगनालिं जाणंति पासंति"
सम्प्रति नारकादीनामेवावधेः संस्थानं चिन्त्यते-तत्र नारकाणामवधि: तप्राकारः, तप्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहणे प्लाव्यमानो दूरादानीयते, सचायतस्त्र्यस्त्रश्च भवति, तदाकारोऽवधि रकाणां, भवनपतीनां सर्वेषामपि पल्लकसंस्थानसंस्थितः पल्लको नाम लाटदेशे धान्याधाराविशेषः स चोद्धर्वायत उपरिच किञ्चित्संक्षिप्तः, व्यन्तराणां पटहसंस्थानसंस्थितः, पटहः-आतोद्यविशेषः, स च किञ्चिदायतः, उपर्यधश्च समप्रमाणः, ज्योतिष्कदेवानां झल्लरीसंस्थानसंस्थितः, झल्लरी-चर्मावनद्धविस्तीर्णवलयाकारा आतोद्यविशेषरूपा देशविशेष प्रसिद्धा, सौधर्मदेवादीनामच्युतदेवपर्यन्तानां मृदङ्गसंस्थानसंस्थितः, मुदङ्गो-वाद्यविशेषः, सचाधस्ताद्विस्तीर्ण उपरि च तनुकः सुप्रतीतः, ग्रैवेयकदेवानां ग्रथितपुष्पसशिखाकभृतचङ्गेरीसंस्थानसंस्थितः, अनुत्तरोपपातिकदेवानां कन्याचोलकापरपर्यायजवनालकसंस्थानसंस्थितः, उक्तं च-नेरइयाणं भंते ! ओहि किंसंठाणसंठिए पन्नत्ते?, गोयमा ! तप्पागारसंठाणसंठिए पनत्ते, सोहम्मदेवाणं पुच्छा, गोअमा! मुइंगसंठाणसंठिए पन्नत्ते, एवं जाय अच्चुयदेवाणं, गेवेज्जदेवाणं पुच्छा, गोअमा ! पुप्फचंगेरीसंठाणसंठिए पन्नत्ते, अनुत्तरोववाइयदेवाणं पुच्छा, गोअमा ! जवनालगसंठाणसंठिए पन्नत्ते" तप्राकारादीनां च व्याख्यानमिदं भाष्यकृदाह
"तप्पेण समागारो ओही नेओ स चाययत्तंसो। उद्धाययो उ पल्लो उवरिं च स किंचि संखेत्तो॥१॥ नच्चायओ समोऽविय पडहो हेट्ठोवरिं पईएसो। चम्मावनद्धविच्छिन्नवलयरूवा य झल्लरिया॥२॥"
उद्धायओ मुइंगो हेट्ठा रुंदो तहोवरिंतनुओ।
पप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥३॥ "जवनालउत्ति भन्नइ उब्भो सरकंचुओकुमारीए" इति। तिर्यग्मनुष्याणां चावधिर्नानासंस्थानसंस्थितो यथा स्वयम्भूरमणोदधौ मत्स्याः, अपिच-तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org