________________
८७
मूलं-६२ तिर्यग्मनुष्यावधौ तु तदपि भवति, उक्तं च
"नानागारो तिरियमनुएसुमच्छा सयंभुरमणोव्व।
तत्थ वलयं निसिद्धं तस्स पुण तयंपि होज्जाहि।।" तथा भवनपतिव्यन्तराणामूर्वं प्रभूतोऽवधिर्भवति, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यग्, विचित्रो नरतिरश्चाम्, आह च-'भवनवइ वंतरानं उटुंबहुगो हो यसेसान। नारगजोइसियाणं तिरियं ओरालिओ चित्तो।।' तदेवमुक्तमानुगामिकमवधिज्ञानं, तथा चाह-से त्तं अनुगामियं।
सम्प्रत्यनानुगामिकं शिष्यः पृच्छन्नाह
मू.(६३ )से किंतं अनानुगामिअंओहिनाणं?, अनानुगामिअं ओहिनाणं से जहानामए केइ पुरिसे एगं महंतं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं २ परिघोलेमाने २ तमेव जोइट्ठाणं पासइ, अन्नत्थ गए न पासइ, एवामेव अनानुगामिअं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोअणाई जाणइ पासइ, अन्नत्थ गए न पासइ, से तं अनानुगामिअं ओहिनाणं॥
वृ.अथकिं तदनानुगामिकमवधिज्ञानं?, सूरिराह-अनानुगामिकमवधिज्ञानं स-विवक्षितो यथानामकः कश्चित्पुरुषः पूर्णः सुखदुःखानामिति पुरुष: पुरिशयनाद्वा पुरुषः, एकं महज्ज्योतिः स्थानं-अग्निस्थानं कुर्यात्, कस्मिश्चित्स्थानेऽनेकज्वालाशतसंकुलमिग्निं प्रदीपं वास्थूलवर्तिज्वालानुरूपमुत्पादयेदित्यर्थः, ततस्तत्कृत्वा तस्यैव ज्योतिः स्थानस्य 'परिपर्यन्तेषु २' परितः सर्वासुदिक्षु पर्यन्तेषु परिघूर्णन् २' परिभ्रमन् २ इत्यर्थः, तदेव 'ज्योतिःस्थानं' ज्योतिः स्थानप्रकाशितं क्षेत्रं पश्यति, अन्यत्र गतो न पश्यति, एष दृष्टान्तः उपनयमाह-'एवमेव' अनेनैव प्रकारेणानानगामिकमवधिज्ञानं यत्रैव क्षेत्रेव्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन संख्येयानि असंख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सह सम्बद्धानि असम्बद्धानिवा, अवधिर्हि कोऽपि जायमानः स्वावगाढदेशादारभ्य निरन्तरं प्रकाशयति कोऽपि पुनरपान्तरालेऽन्तरं कृत्वा परतः प्रकाशयति, तत उच्यते-सम्बद्धान्यसम्बद्धानि वेति, 'जानाति' विशेषाकारेण परिच्छिनत्ति 'पश्यति' सामान्यकारेणावबुध्यते, 'अन्यत्र' देशान्तरेगतो नैवपश्यति, अवधिज्ञानावरणक्षयोपशमस्य तत्क्षेत्रसापेक्षत्वात्। तदेवमुक्तमनानुगामिकं, सम्प्रति वर्द्धमानकमनवबुध्यमानः शिष्यः प्रश्नं करोति -
मू.(६४)से किंतं वड्डमाणयं ओहिनाणं?, २ पसत्थेसु अज्झवसाणट्ठाणेसु वट्टमाणस्स वड्डमाणचरित्तस्स विसुज्झमाणस्सविसुज्झमाणचरित्तस्स सव्वओसमंताओही वड़ा
वृ.अथकिं वर्द्धमानकमवधिज्ञानं?, सूरिराह-वर्द्धमानकमवधिज्ञानं प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य, इह सामान्यतो द्रव्यलेश्योपरञ्जितं चित्तमध्यवसायस्थानमुच्यते, तच्चानवस्थितं, तत्तल्लेश्याद्रव्यसाचिव्ये विशेषसम्भवात्, ततो बहुवचनमुक्तं, 'प्रशस्तेष्वि'ति, अनेन चाप्रशस्तकृष्णादिद्रव्यलेश्योपरञ्जितव्यवच्छेदमाह, प्रशस्तेष्वध्यवसायेषु वर्तमानस्येति, किमुक्तं भवति? -प्रशस्ताध्यवसायस्थानकलितस्य, 'सर्वतः समन्तादवधि: परिवर्द्धते इति सम्बन्धः, अनेनाविरतसम्यग्दृष्टेरपि परिवर्द्धमानकोऽवधिर्भवतीत्याख्यायते, तथा वद्धमानचरित्तस्स' प्रशस्तेष्वध्यवसायस्थानेषु वर्धमानचारित्रस्य, एतेन देशविरतिसर्वविरतयोर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org