________________
मूलं - ६२
८५
“रयणप्पभापुढविनेरइया णं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोअमा ! जहनेणं अद्भुट्ठाई गाउयाइं जाणंति पासंति उक्कोसेणं चत्तारि गाउआई जाणंति पासंति, सक्करप्पभापुढविनेरइयाणं पुच्छा, गोअमा ! जहन्त्रेणं अड्डाइज्जाई गाउआई उक्कोसेणं तिन्नि गाउआई जाणंति पासंति, पंकप्पभापुढविने रइया णं पुच्छा, गोयमा ! जहन्नेणं दोन्नि गाउइयाई उक्कोसेणं अड्डाइज्जाई गाउयाइं जाणंति पासंति, धूमप्पभापुढविनरइया णं पुच्छा, गोअमा ! जहन्नेणं दिव ं गाउयं उक्कोसेणं दो गाऊआई जाणंति पासंति, तमापुढविनेरइया णं पुच्छा, गोअमा ! जहन्नेणं गाउयं उक्कोसेणं दिवड्डूं गाउयं जाणंति पासंति, अह सत्तमपढविनेरइया णं भंते! पुच्छा, गोयमा ! जहन्त्रेणं अद्धगाउयं उक्कोसेणं गाउयं जाणंति पासंति ।
असुरकुमाराः पुनरवधिज्ञानतो जघन्यतः क्षेत्रं पञ्चविशंतियोजानि जानान्ति पश्यन्ति उत्कर्षतोऽसंख्येयान् द्वीपसमुद्रान्, नागकुमारादयः पुनः सर्वेऽपि स्तनिकुमारपर्यन्ता जघन्यतः पञ्चविंशतिं योजनानि जानन्ति पश्यन्ति उत्कर्षतः सङ्ख्येयान् द्वीसमुद्रान् एवं व्यन्तरा अपि, तथा चोक्तम्- 'असुरकुमारा णं भंते ! ओहिणा केवइयं खेत्तं जाणंति पासंति ?, गोअमा ! जहन्नेणं पणवीसं जोयणाई उक्कोसेणं असङ्खेज्जदीवसमुद्दे ओहिणा जाणंति पासंति, नागकुमारा णं पुच्छा, गोअमा ! जहन्त्रेणं पणवीसं जोयणाई उक्कोसेणं संखेज्जदीवसमुद्दे जाणंति पासंति, एवं जाव थणियकुमारा, वाणमंतरा जहा नागकुमारा" इह पञ्चविंशतियोजनानि भवनपतयो व्यन्तरा वा जघन्यतस्ते पश्यन्ति येषामायुर्द्दशवर्षसहस्रप्रमाणं, न शेषाः, आह च भाष्यकृत"पणवीसजोयणाइं दसवाससहस्सिया ठिई जेसि”मिति । जयोतिष्यकाः पुनर्देवा जघन्यतोऽपि सङ्घयेयान् द्वीपसमुद्रानवधिज्ञानतः पश्यन्ति, उत्कर्ष-तोऽपि संख्येयान् द्वीपसमुद्रान्, केवलमधिकतरान्, यदाह-‘जोइसिया णं भंते! केवइयं खित्तं ओहिणा जाणंति पासंति ?, जहन्त्रेणऽवि संखेज्जे उक्कोसेणवि संखेज्जे दीवसमुद्दे"
सौधर्म्मकल्पवासिनो देवाः पुनरवधिज्ञानतो जघन्येनांगुलासंख्येयभागमात्रं पश्यन्ति उत्कर्षतोऽधस्ताद्रत्रप्रभायाः पृथिव्याः सर्वान्तिममधस्तनं भागं यावत्, तिर्यक्षुअसंख्येयान् द्वीपसमुद्रान्, ऊर्ध्वं तु स्वकल्पविमानस्तूपध्वजादिकं, एवमीशानदेवा अपि । अत्राह - नन्वंगुलासंख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव, न शेषेषु, यत आह भाष्यकृत्स्वकृतभाष्यटीकायाम् 'उत्कृष्टो मनुष्येष्वेवे, नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवे 'ति, तत्कथमीह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु तद्भवज:, ततो न कश्चिद्दोष:, आह च दुष्षमान्धकारनिमग्नजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमा श्रमणः
"वेमाणीयाणमंगलभागमसंखं जहन्नओ होइ (ओही ) ।
उववाए परभविओ तब्भवजो होइ तो पच्छा ।।"
एव् सनत्कुमारादिदेवानामपि द्रष्टव्यम्, नवरमधोभागदर्शने विशेषः ततः स प्रदर्श्यतेसनत्कुमारमाहेन्द्रदेवा अधस्तात् शर्करप्रभायाः सर्वान्तिममधस्तनं भागं यावत्पश्यन्ति, ब्रह्मलोकलान्तकदेवास्तृतीयपृथिव्याः, महाशुक्रसहस्रारकल्पदेवाश्चतुर्थपृथिव्याः, आनतप्राणतारणा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org