SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८४ नन्दी - चूलिकासूत्रं अंतगएणं ओहिनाणेणं मग्गओ चेव संखिज्जाणि वा असंखिज्जाणि वा जोयनाइं जानइ पासइ, पासओ अंतगएणं पासओ चेव संखिज्जाणि वा असंखिज्जाणि वा जोयनाई जाणइ पासइ, मज्झगएणं ओहिनाणेणं सव्वओ समंता संखिज्जाणि वा असंखिज्जाणि वा जोअणाई जाणइ पासइ, से तं अनुगामिअं ओहिनाणं ।। वृ. अन्तगतस्य मध्यगतस्य च परस्परं कः प्रतिविशेषः ? - प्रतिनियतो विशेष: ?, सूरिराहपुरतो ऽन्तगतेनावधिज्ञानेन पुरत एव-अग्रत एव सङ्ख्येयानि - एकादीनि शीर्षग्रहेलिकापर्यन्तानि असङ्ख्येयानि वा योजनानि, एतावत्सु योजनेष्ववगाढं द्रव्यमित्यर्थः, जानाति पश्यति, ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यग्रहणात्मकं, तदेवं पुरतो ऽन्तगतस्य शेषावधिज्ञानेभ्यो भेदः, एवं शेषाणामपि परस्परं भावनीयः, नवरं 'सवओ समंता' इति सर्वतः सर्वासुं दिग्विदिक्षु समन्तात् सर्वैरेवात्मप्रदेशेः सर्वैर्वा विशुद्धस्पर्द्धकैः, उक्तं च चूण्ण “सव्वउत्ति सव्वासु दिसिविदिसासु, समंता इति सव्वायप्पएसेसु सव्वेसुवा विसुद्धिफड्डेगसु" इति, अत्र ‘सव्वायप्पएसेसु' इत्यादिस्तृ (त्यत्रतृ) तीयार्थे सप्तमी, भवति च तृतीयार्थे सप्तमी, यदाह पाणिनि: स्वप्राकृतलक्षणे-व्यत्ययोऽप्यासा'मित्यत्र सूत्रे, तृतीयार्थे सप्तमी यथा- 'तिसु तेसु अलंकिया पुहवि' इति, अथवा स मन्ता इत्यत्र स इत्यवधिज्ञानी परामृश्यते, मन्ता इति ज्ञाता, शेषं तथैव - अथ किमवधिज्ञानं केषामसुमतां भवतीति चेद्, उच्यते, देवनारकतीर्थकृतामवश्यं मध्यगतं तिरश्चामन्तगतं मनुष्याणां तु यथाक्षयोपशममुभयं तथा चोक्तं प्रज्ञापनायां-"नेरइयाणं भंते! किं देसोही सव्वोही ?, गोयमा ! नो देसोही सव्वोही, एवं जाव थणियकुमाराणं। पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा! देसोही न सव्वोही । मनुस्साणं पुच्छा, गोयमा ! देसोहीवि सव्वोहीवि । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं" वक्ष्यति च "नेरइय देव तित्थंकरा य ओहिस्सऽ बाहिरा होंति । पासंति सव्वओ खलु सेसा देसेण पासंति ।। " देवनारकाणां च मध्यगतमवधिरूपं ज्ञानमाभववर्त्ति, भवप्रत्ययत्वात्तस्य, तीर्थकृतां त्वाकेवलज्ञानं, केवलज्ञानोत्पत्तौ तस्य व्यवच्छेदात्, ननु सङ्ख्येयानि असंख्येयानि वा योजनानि पश्यन्तीत्युक्तं, तत्र के जीवाः कति योजनानि पश्यन्तीति ?, उच्यते, इह तिर्यग्मनुष्या अनियतपरिमाणावधयः, तथाहि केचिदंगुलासङ्घयेयभागं केचिदंगुलं केचिद्वितस्ति यावत्केचित् सङ्ख्येयानि योजानानि केचिदसङ्ख्येयानि, मनुष्यास्तु केचित् परिपूर्णं लोकं, केचिदलोकेऽपि लोकमात्राणि असंख्येयानि खण्डानि, ये तु देवनारकास्ते प्रतिनियतावधिपरिमाणा: ततः तेषां प्रतिनियतं क्षेत्रपरिमाणमुच्यते - तत्र रत्नप्रभानारका जघन्यतोऽर्द्धचतुर्थानि गव्यूतानि क्षेत्रमवधिज्ञानतः पश्यन्ति, उत्कर्ष - तश्चत्वारि गव्यूतानि १, शर्करप्रभानारका जघन्यतस्त्रीणि गव्यूतानि उत्कर्षतोऽर्द्धचतुर्थानि २, वालुकप्रभानारका जघन्यतोऽर्द्धतृतीयानि गव्यूतानि उत्कर्षतस्त्रीणि गव्यूतानि ३, पङ्कप्रभानारका जघन्येनैकं गव्यूतमुत्कर्षतः सार्द्धं गव्यूतं ६, तमतमः -प्रभानारका जघन्यतोऽर्द्धगव्यूतमुत्कर्षतो गव्यूतं, तथा चोक्तं प्रज्ञापनायां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy