SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मूलं-६२ चशब्दो देशकालाद्यपेक्षया स्वगतानेकभेदसूचकः, तथा 'मध्यगतं चेति इह मध्यं-प्रसिद्ध दण्डादिमध्यवत्, ततो मध्ये गतं मध्यगतं, इदमपि त्रिधा व्याख्येयं, आत्मप्रदेशानां मध्ये-मध्यवर्त्तिष्वात्मप्रदेशेषु गतं-स्थितं मध्यगतं, इदं च स्पर्द्धकरूपमवधिज्ञानं सर्वदिगुपलम्भकारणं मध्यवर्तिनामात्मप्रदेशानामवसेयम्, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्ये गतं मध्यगतं, उक्तं चूर्णी-"ओरालियसरीरमज्झे फडगविसुद्धीओसव्वायप्पएसविसुद्धीओवासवदिसोवलम्भत्तणओमज्झगउत्ति भन्नति" अथवा तेनावधिज्ञानेन यदुद्योदितं क्षेत्रं सर्वासुदिक्षु तस्य मध्ये-मध्यभागे गतं-स्थितं मध्यगतम्, अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्तित्वात्, आह च चूर्णिणकृत-"अहवा उवलद्धिखेत्तस्स अवहिपुरिसो मज्झगउत्ति, अतो वा मज्झगओ ओही भन्नइ" इति, चशब्दः स्वगतानेकभेदसूचक:-अथ किं तदन्तगतं?, अन्तगतं 'त्रिविधं' त्रिप्रकारं प्रज्ञप्तम्, तद्यथा-तत्र 'पुरतः' अवधिज्ञानिनः स्वव्यपेक्षया अग्रभागेऽन्तगतं पुरतोऽन्तगतं, तथा मार्गत:-पृष्ठन्तः अन्तगतं मार्गतोऽन्तगतं, तथा पार्श्वतोर्द्वयोः पार्श्वयोरेकतरपार्श्वतो वाऽन्तगतं पार्श्वतोऽन्तगतं। ___ अथ किं तत्पुरतोऽन्तगतं?, 'से जहा' इत्यादि 'स' विवक्षितो यथानामकः कश्चित्पुरुषः अत्र सर्वेष्वपि पदेष्वेकारान्तत्वम् 'अतः सौ पुंसी'ति मागधिकभाषालक्षणात्, सर्वमपि हि प्रवचनमर्द्धमागधिकभाषात्मकम्, अर्द्धमागधिकभाषया तीर्थकृतां देशनाप्रवृत्तेः, ततः प्रायः सर्वत्रापि मागधिकभाषालक्षणमनुसरणीयं। __'उक्का चेति' उल्का-दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, चटुली वा चटुली:-पर्यन्तज्वलिततृणपूलिका अलावा' अलातमुल्मुकं अग्रभागे ज्वलत्काष्ठामित्यर्थः, मणिर्वा' मणिःप्रतीतः, 'ज्योतिर्वा' ज्यतो:शरावाद्याधारो ज्वलन्नग्निः, आह चचूर्णिणकृत-"जोइत्ति मल्लगाइठिओ अगनी जलंतो' इति, प्रदीपं वा' प्रदीप-प्रतीतः 'पुरतः' अग्रतो हस्ते दणडादौ वा कृत्वा 'पणोल्लेमाणोत्ति' प्रणुदन् २ हस्तस्थितं वा क्रमेण स्वगत्यनुसारतः प्रेरयन् २ 'गच्छेत्' यायात्, एष दृष्टान्तः, उपनयस्तु स्वयमेव भावनीयः, तत उपसंहार:-'से तं पुरओ अंतगयं' सेशब्दः प्रतिवचनोपसंहारदर्शने, तदेतत्, पुरतोऽन्तगतं, इयमत्र भावना-यथास पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येनावधिज्ञानेन तथाविधक्षयोपशमभावतः पुरत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुरतोऽन्तगतमभिधीयते। एवं मार्गतोऽन्तर्गतपार्श्वतोऽन्तगतसूत्रं भावनीयं, नवरं 'अनुकड्ढेमाणे अनुकड्डेमाणे'त्ति हस्तगतं दण्डानादिस्थितं वा अनुपश्चात् कर्षन् अनुकर्षन् पृष्ठतः पश्चात् कृत्वा समाकर्षन् २ इत्यर्थः। तथा 'पासओ परिकड्डेमाणे'त्ति पार्श्वतो दक्षिणपार्श्वतोऽथवा वामपार्श्वतो यद्वा द्वयोरपि पार्श्वयोरुल्कादिकं हस्तस्थितं दण्डाग्रादिस्थितं वा परिकर्षन-पार्श्वभागे कृत्वा समाकर्षन्समाकर्षनित्यर्थः-निगदसिद्धं नवरं 'मस्तके' शिरसि कृत्वा गच्छेत् तदेत्त मध्यगतं, इयमत्र भावनायथा तेन मस्तकस्थेन सर्वासुदिक्षु पश्यति, एवं येनावधिज्ञानेन सर्वासुदिक्षु पश्यति तन्मध्यगतमिति । इत्थम्भूतां च व्याख्यां सम्यगनवबुध्यमानः शिष्यः प्रश्नं करोति मू.(६२ वर्तते एव)अंतगयस्स मज्झगयस्स य को पइविसेसो?, पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ, मग्गओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy