________________
८२
नन्दी-चूलिकासूत्रं गामिकमनानुगामिकं चेत्युक्ते न वर्द्धमानकादयो विशेषा अवगन्तुंशक्यन्ते, विशेषावगमकरणाय च महता शास्त्रारम्भप्रयासः, ततो विशेषज्ञापनार्थं विशेषभेदोपन्यासकरणं ।।
मू.(६२)से किंतं आनुगामिअंओहिनाणं?, आनुगामिअंओहिनाणंदुविहं पत्रत्तं, तंजहाअंतगयं च मज्झगयं च।
से किं तं अंगतयं?, अंतगयं तिविहं पन्नत्तं, तंजहा-पुरओ अन्तगयं मग्गओ अन्तगयं पासओ अन्तगयं, से किंतं पुरओ अंतगयं?, २ से जहानामए केइ पुरिसे उक्कं वा चडुलिअंवा अलायं वा मणिं वा पईवं वा जोइंवा पुरओ काउंपणुल्लेमाणे २ गच्छेज्जा, सेतं पुरओ अंतगयं, से किंतं मग्गओ अन्तगयं?,२-से जहानामए केइ पुरिसे उक्कं वा चडुलिअंवा अलायं वा मणि वा पईवं वा जोइंवा मग्गओ काउं अणुकड्डेमाने २ गच्छिज्जा से तं मग्गओ अंतगयं, से किंतं पासओ अंतगयं?, २ -से जहानामए केइ पुरिसे उकं वा चडुलिअंवा अलायंवा मणि वा पईवं वा जोइंवा पासओ काउंपरिकड्डेमाने २ गच्छिज्जा से तं पासओ अंतगयं, से तं अंतगयं।
से किं तं मज्झगयं?, मज्झगयं से जहानामए केइ पुरिसे उक्कं वा चडुलिअंवा अलावा मणिं वा पईवं वा जोइं वा मत्थए काउंसमुव्वहमाणे २ गच्छिज्जा से तं मज्झगयं।
वृ.अथ किं तदानुगामिकमवधिज्ञानं?, आनुगामिकमवधिज्ञानं द्विविधं-अन्तगतंचमध्यगतं च, इहान्तशब्दः पर्यन्तवाची, यथा वनान्ते इत्यत्र, ततश्च अन्ते-पर्यन्ते गतं-व्यवस्थितमन्तगतम्, इहार्थत्रयव्याख्याअन्ते गतम्-आत्मप्रदेशानां पर्यन्ते स्थितमन्तगतं, इयमत्र भावना। ___ इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभावा गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इन प्रतिनियतो विच्छेदविशेषः, तथा चाह जिनभद्रक्षमाश्रमणः स्वोपज्ञभाष्यटीकायां-'स्पर्द्धकमवधिविच्छेदविशेषः' इति, तानि चैकजीवस्य सङ्खयेयान्यसङ्घयेयानि वा भवन्ति, यत उक्तं मूलावश्यकप्रथमपीठिकायां-“फड्डाय असंखेज्जा संखेज्जा आवि एगजीवस्से"ति, तानि च विचित्ररूपाणि, तथाहि-कानिचित् पर्यन्तवर्त्तिष्वात्मप्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिदपरितनभागे तथा कानिचिन्मध्यवर्त्तिष्वात्मप्रदेशेषु तत्र यदा अन्तवर्तिष्वात्मप्रदेशेष्ववधिज्ञानमुपाजयते तदा आत्मनोऽन्ते-पर्यन्ते स्थितमितिकृत्वा अन्तगतमित्युच्यते, तैरेव पर्यन्तवर्तिभिरात्मप्रदेशैः साक्षादवधिरूपेण ज्ञानेन ज्ञानात् न शषैरिति, अथवा औदारिकशरीरस्यान्ते गतं-स्थितं अन्तगतं, कयाचिदेकदिशोपलम्भात्, इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपिऔदारिकशरीरान्तेनैकया दिशा यद्वशादुपलभ्यते तदप्यन्तगमत्। __ आह-यदि सर्वात्मप्रदेशानां क्षयोपक्षमस्ततः सर्वतः किं न पश्यति?, उच्यते, एकदिशैव क्षयोपशमसंभवात्, विचित्रो हि क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थम्भूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचित् विवक्षितयैकया दिशा पश्यतीति, उक्तं चूण्ाँ-"ओरालियसरीरंते ठियं गयंति एगहें, तंचायप्पएसफड्डगा बहि एगदिसि पासणा गयंति अन्तगयं भन्नइ" तृतीयोऽर्थ एकदिग्भाविना तेनावधिज्ञानेन यदुद्योतितं क्षेत्रं तस्यान्ते वर्तते तदवधिज्ञानम्, अवधिज्ञानवतः तदन्तेवर्तमानत्वात्, ततोऽन्ते-एकदिगरूपस्यावधिज्ञानविषयस्य पर्यन्ते व्यवस्थितमन्तगतं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org