________________
मूलं-६१ गुणप्रतिपन्नः, अनेन पात्रतायां सत्यां स्वयमेव गुणा भवन्तीति प्रतिपादयति, उक्तं च
__ "नोदन्वानर्थितामेति, न चाम्भोभिर्न पूर्यते।
__ आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः।।" अगारं-गृहं न विद्यते अगारं यस्यासावनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः, तस्य, प्रशस्तेष्वध्यवसायेषु वर्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमण क्षयोपशमभावतोऽवधिज्ञानमुपजायते। ___ मन:पर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि रसरस्पर्द्धकानि देशघातीनि, भवन्ति, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यं बन्धकाले तथारूपाणामेव तेषां बन्धनात्, ततो मन:पर्यायज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं, मतिश्रुतावरणाचक्षुदर्शनावरणान्तरायप्रकृतीनां पुनः सर्वघातीनि रसस्पर्द्धकानि येन तेन चाध्यवसायेनाध्यवसायानुरूपं देशघातीनि स्पर्धकानि भवन्ति, तेषां तथास्वाभाव्यात्, ततो मत्यावरणादीनां सदैव देशधातिनामेव रसस्पर्द्धकानामुदयः, सदैवच क्षयोपशमः, उक्तंच पञ्चसंग्रहमूलटीकायां-'मतिश्रुतावरणाचक्षदर्शनावरणान्तरायप्रकृतीनां च सदैव देशघातिरसस्पर्द्धकानामेवोदयः, ततस्तासां सदैवोदयिकक्षायौपशमिको भावावि'ति कृतं प्रसङ्गेन। 'तद्' अवधिज्ञानं समासत:' संक्षेपेण षड्विधं' षट्प्रकारंप्रज्ञप्तम्, तद्यथा-'आनुगामिकमि'त्वादि, तत्र गच्छन्तं पुरुषम्-आसमन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येवानुगामिकं, स्वार्थे कः प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य तदानुगामिकं, यल्लोचनवत् गच्छन्तमनुगच्छति तदवधिज्ञानमानुगामिकमिति भावः । तथा न आनुगामिकं अनानुगामिकं शृङ्खलाप्रतिबद्धप्रदीप इव यत् न गच्छन्तमनुगच्छति तदवधिज्ञानमनानुगामिकं, उक्तं च- "अनुगामिओऽनुगच्छइ गच्छंतं लोअणं जहा पुरिसं।
इयरो उनानुगच्छइ ठियप्पईवोव गच्छंतं।" तथा वर्द्धत इति वर्द्धमानं, तत: संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादिभिर्वर्द्धमानदहनज्वालाकलापइव पूर्वावस्थातो यथायोगप्रशस्तप्रशस्ततराध्यवासयभावतोऽभिवर्द्धमानमवधिज्ञानं वर्द्धमानकं, तच्चासकृद्विशिष्टगुणविशुद्धिसापेक्षत्वात्। तथा हीयते-तथाविधसामग्र्यभावतो हानिमुपगच्छति हीयमानं, कर्मकर्तृविवक्षायामानश्प्रत्ययः, हीयमानमेव हीयमानकं, 'कुत्सिताल्पाज्ञाते' इति कः प्रत्ययः, पूर्वावस्थातो यदधो हासमुपगच्छत्यवधिज्ञानं तत् हीयमानकमिति भावः, उक्तं च-हीयमानं पुवावत्थाओ अहोऽहो हस्समाणं" इति।
तथा प्रतिपतनशीलं प्रतिपाति, यदुत्पत्रं सत् क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसमुपयाति तत्प्रतिपातीत्यर्थः । हीयमानकप्रतिपातिनोः कः प्रतिविशेष इति चेद्, उच्यते, हीयमानकं पूर्वावस्थातोऽधोऽधो हासमुपगच्छदभिधीयते, यत्पुनः प्रदीप इव निर्मूलमेककालमपगच्छति तत्प्रतिपाति तथा न प्रतिपाति-यत्न केवलज्ञानादाक् भ्रंशमुपयाति तदप्रतिपातीत्यर्थः।आह-आनुगामिकानानुगामिकरूपभेदद्वये एवशेषभेदा वर्द्धमानकादयोऽन्त
र्भावयितुं शक्यन्ते, तत्किमर्थं तेषामुपादानं?, उच्यते, यद्यप्यन्तर्भावयितुं शक्यन्ते तथाऽप्यानु| 30/6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org