________________
नन्दी - चूलिकासूत्रं
च्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्मसम्परायसंयमाः क्षायोपशमिका उपवर्ण्यन्ते, यत उक्तं - "खओवसमिया सम्मदंसणलद्धी खओवसमिआ सम्मामिच्छादंसणलद्धी खओवसमिया सामाइयलद्धी खओवसमिया छेओवद्वाणलद्धी, एवं परिहारविसद्धियलद्धी सुहुमसंपरायलद्धी खओवसमिया चरित्ताचरित्तलद्धी" इति । अन्यत्रापि उक्तं
८०
"मिच्छत्तं जमुन्नं तं खीणं अनुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं ॥ १॥" तथा “क्षपयत्युपशमयति वा प्रत्याख्यानावृतः कषायांस्तान् । स ततो येव भवेत् तस्य विरमणे बुद्धिरल्पाल्पा ॥१॥” छेदोपस्थाप्यं वा व्रतं सामायिकं चरित्रं वा ।
सततो लभते प्रत्याख्यानावरणक्षयोपशमात्॥२॥"
क्षयोपशमश्च भवति विपाकोदयनिरोधे, ततोऽवसीयते भवन्ति मिथ्यात्वाप्रत्याख्यानप्रत्याख्यानावरणादीनां सर्वघातिप्रकृतीनां सर्वघातीनि रसस्पर्द्धकान्यध्यवसायविशेषतो विपाकोदयाभावयुक्तानीति कृतं प्रसङ्गेन । तत्रावधिज्ञानावरणप्रकृतीनां तथाविधविशुद्धाध्यवसाय भावतः सर्वघातिषु रसस्पर्द्धकेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु उदयावलिकामाप्तस्यांशस्य क्षयेऽनुदीर्ष्णस्य चोपशमे विपाकोदयविष्कम्भरूपे जीवस्यावध्यादयो गुणाः प्रादुष्ष्यन्ति, उक्तं च
"निहिएसु सव्वघाईरसेसु फड्डेसु देसघाईणं । जीवस्स गुणा जायन्ति ओहिमनचक्खुमाईया || "
अत्र 'निहितेष्वि 'ति देशघातिरसस्पर्द्धकतया व्यवस्थापितेषु, शेषं सुगमं, सर्वघातीनि च रसस्पर्द्धकानि अवधिज्ञानावरणीयस्य देशघातिरसस्पर्द्धकतया परिणमयति, कदाचित् विशिष्टगुणप्रतिपत्तिमन्तरेण कदाचित् पुनर्विशिष्टगुणप्रतिपत्त्या, विशिष्टगुणप्रतिपत्तिमन्तरेण कथमिति चेद्, उच्यते, इहयथा दिवाकरमण्डलस्य घनपटलाच्छादितस्य कथञ्चिद्विस्रसापरिणामेन घनपटलपुद्गलानां निःस्नेहीभूय परिक्षयतः समुपजातेन रन्ध्रेण तिमिरनिकरोपसंहारहेतवो भानव: स्वावपातदेशास्पदं द्रव्यमुद्योतयन्ति तथा प्रकृतिभासुरस्य आत्मनो मिथ्यात्वादिहेतूपचयोपजनितावधिज्ञानावरणपटलतिरस्कृतस्वरूपस्य संसारे परिभ्रमतः कथञ्चिदेवमेव तथाविधशुभाध्यवसायप्रवृत्तितोऽवधिज्ञानावरणसम्बन्धिनां सर्वधारतिरसस्पर्द्धकानां देशघातिरसस्पर्द्धकतया जातानामुदयावलिकाप्राप्तस्यांशस्य परिक्षयतोऽनुदयावलिकाप्राप्तस्योपशमतः समुद्भूतेन क्षयोपशमरूपेण रन्ध्रेण विनिर्गतोऽवधिज्ञानालोकः प्रसाधयति स्वकार्यं, कदाचित् पुनर्विशिष्टगुणप्रतिपत्तित: सर्वघातीनि रसस्पर्द्धकानि दशेघातीनि भवन्ति तथा चोक्तम्
-
मू. (६१) अहवा गुणपडिवन्नस्स अनगारस्स ओहिनाणं समुप्पज्जइ तं, समासओ छव्विहं पन्नत्तं, तंजहा - आनुगामिअं १ अनानुगामिअं २ वड्डमानयं ३ हीयमानयं ४ पडिवाइयं ५ अप्पडिवाइयं ६ |
वृ. ‘अथवे’ति प्रकारान्तरोपदर्शने, प्रकारान्तरता च गुणप्रतिपत्तिमन्तरेणेत्यपेक्ष्य दृष्टव्या, गुणा:- मूलोत्तररूपाः तान् प्रतिपन्नो गुणप्रतिपन्नः, अथवा गुणैः प्रतिपन्नः पात्रमितिकृत्वा गुणैराश्रितो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org