SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मूलं - ६० ७९ यानि च देशधातीनि रसस्पर्द्धकानितानि स्वघात्यं ज्ञानादिगुणं देशतो ध्नन्ति, तदुदयेऽवश्यं क्षयोपशमसम्भवात्, तानि च स्वरूपेणानेकविधविवरसंकुलानि, तथाहि कानिचित्कट इवातिस्थूरच्छिद्रशतसंकुलानि कानिचित्, कम्बल इव मध्यमविवरशतसंकुलानि कानिचित्पुनरतिसूक्ष्मविवरसंकुलानि यथा वासांसि तथा तानि देशधातीनि रसस्पर्द्धकानि स्तोकस्नेहानि भवन्ति वैमल्यरहितानि च, उक्तं च “देसविघाइत्तणओ इयरो कडकंबलंसुसंकासो । विविहच्छिद्दुहभरिओ अप्पसिनेहो अविमलो अ॥" अघातिनीनां तु रसस्पर्द्धकानि स्वरूपेण न सर्वधातीनि नापि देशधातीनि, केवलं सर्वघातिरसस्पर्द्धकसङ्घर्षतः सर्वधातिरससदृशानि भवन्ति, यथा स्वयमचौरा इति (अपि) चौरसम्पर्कतः चौरप्रतिभासाः, उक्तं च "जाण न विसओ घाइत्तणंमि ताणंपि सव्वघाइरसो । जायइ घाइसगासेण चोरया वेहऽ चोराणं ॥' तदेवमुक्तानि सर्वघातीनि देशघातीनि च रसस्पर्द्धकानि, सम्प्रति यथा क्षयोपशमो भवति तथा भाव्यते -तत्र देशघातिनीनां मतिज्ञानावरणीयादिकर्मप्रकृतीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि कर्त्तुं शक्यन्ते, तथास्वाभाव्यात्, कथमेतदवसेयमिति चेत् ?, उच्यते, इह यदि बन्धत एव देशघातीनि रसस्पर्द्धकानि भवेयुर्नाध्यवसायविशेषतः तथापरिणमनेनापि, तर्हि मतिज्ञानादीनामभाव एव सर्वथा प्राप्नोति, मत्यादीनि ज्ञानानि क्षायोपशमिकाणी यदुक्तमनुयोगद्वारेषु - "खओवसमिया आभिनिबोहियनाणलद्धी खओवसमिया सुयनाणलद्धी खओवसमिया ओहिनाणलद्धी" इत्यादि, क्षयोपशमश्च विपाकोदयवतीनां प्रकृतीनां देशघातिनामेव रसस्पर्द्धकानामुदये भवति, न सर्वघातिनां, देशघातीनी च रसस्पर्द्धकानि बन्धमधिकृत्यानिवृत्तिबादरसम्पराद्धायाः सङ्ख्येयेषु भागेषु गतेषु सत्सुतत ऊर्ध्वं प्राप्यन्ते, ततस्तस्या अवस्थाया अर्वाक् सर्वथा मतिज्ञानादीनि न प्राप्नुवन्ति, सर्वघातिरसस्पर्द्धकविपाकोदयभावतः तेषां क्षयोपशमासम्भवाद्, अथ च मतिज्ञानादिबलप्रभावतः तस्या अवस्थायाः सम्प्राप्तिस्ततः इतरेतराश्रयदोषवैवस्वतमुखोपनिपतित्वान्न कदाचिदपि मतिज्ञानादिसम्भवः, अपि च मतिश्रुतज्ञानाचक्षुदर्शनान्यपि क्षायोपशमिकाणि, क्षयोपशमश्च यदि विपाकोदये भवति तर्हि देशघातिरसस्पर्द्धकानामेव न सर्वघातिरसस्पर्द्धकानां, देशघातीनि च रसस्पर्द्धकानि अनिवृत्तिबादरसम्पराद्धायां, ततस्तेषामपि ततोऽर्वागभावः प्राप्नोति, अथ च सर्वजीवानामपि तामवस्थामप्राप्तानाममूनि विद्यन्ते, ततोऽवश्यमेतदुरीकर्त्तव्यं भवन्ति देशघातिनीनां प्रकृतीनां सर्वघातीन्यपि रसस्पर्द्धकान्यध्यवसायविशेषतो देशघातीनीति, अथ यथा देशघातिनीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि भवन्ति तथा सर्वघातिनोः केवलज्ञानावरणकेवलदर्शनावरणयोरपि कस्मान्नोपजायन्ते ?, उच्यते, तथास्वाभाव्यात्, तथाहि-तथारूपा एव ते पुद्गलाः केवलज्ञानकेवलदर्शनावरणयोर्योग्या ये द्विस्थानकरसपरिणता अपि न देशघातिनो भवन्ति, नापि तेषां विपाकोदयविष्कम्भभाञ्जि, तथास्वाभाव्याद्, एतच्चावसीयते तथाकार्यदर्शनात्, तथाहि सम्यक्त्वसम्यग्मिथ्यात्वदेशविरतिसामायिक For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy