SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७६ नन्दी-चूलिकासूत्रं इन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्षं यत् इन्द्रियप्रत्यक्षंन भवति, नोशब्दः सर्वनिषेधवाची, तेन मनसोऽपि कथञ्चिदिन्द्रियत्वाभ्युपगमात्तदाश्रितं ज्ञानं प्रत्यक्षं न भवतीति सिद्धम्।। म.(५६)से किं तं इंदिअपच्चक्खं?, इंदिअपच्चक्खं पंचविहं पन्नत्तं, तंजहा-सोइंदिअपच्चक्खं चक्खिदिअपच्चक्खं घाणिदिअपच्चक्खं जिभिदिअपच्चक्खं फासिंदिअपच्चक्खं, से तं इंदिअपच्चक्खं । वृ.अथ किं तदिन्द्रियप्रत्यक्षं?, इन्द्रियप्रत्यक्षं पञ्चविधं प्रज्ञप्तं, तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, तत्र श्रोत्रेन्द्रियस्य प्रत्यक्षं श्रोत्रेन्द्रियप्रत्यक्षं, श्रोत्रेन्द्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेन्द्रियप्रत्यक्षमिति भावः, एवं शेषेष्वपि भावनीयम्। एतच्च व्यवहारत उच्यते, न परमार्थत इत्यनन्तरमेव प्रागुक्तम् । आह-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणीपि क्रमः, अयमेव च समीचीनः, पूर्वपूर्वलाभ एवोत्तरोत्तरलाभसम्भवात्, ततः किमर्थमुत्क्रमोपन्यासः कृतः?, उच्यते, अस्ति पूर्वानुपूर्वी अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थं, अपि च-शेपेन्द्रियापेक्षया श्रोत्रेन्द्रियं पटु, ततः श्रोत्रेन्द्रियस्य यत् प्रत्यक्षं तच्छेषेन्द्रियप्रत्यक्षापेक्षया स्पष्टसंवेदनं, स्पष्टसंवेदनं चोपवर्ण्यमानं विनेयः सुखेनावबुध्यते, ततः सुखप्रतिपत्तये श्रोत्रेन्द्रियादिक्रमः उक्तः ।। मू.(५७)से किं तं नोइंदिअपच्चरखं?, नोइंदियअपच्चक्खं तिविहं पन्नत्तं, तंजहाओहिनाणपच्चक्खं मनपज्जवनाणपच्चक्खं केवलनाणपच्चक्खं। मू.(५८)से किं तं ओहिनाणपच्चक्खं?, ओहिनाणपच्चक्खं दुविहं पन्नत्तं, तंजहाभवपच्चइअंच खओवसमिअंच। मू.(५९) से किं तं भवपच्चइअं?, २ दुण्हं, तंजहा-देवाण य नेरइआण य। मू.(६०)से किंतंखओवसमिअं?, खओवसमिअंदुण्हं, तंजहामनूसाण य पंचेंदिअतिरिक्खजोणिआण य?, को-हेऊ खाओवसमियं?, खओवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणंखएणं अनुदिण्णाणं उवसमेणं ओहिनाणं समुपज्जइ॥ वृ. अथ किं तन्नोइन्द्रियप्रत्यक्षं ?, नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, तद्यथा-अविधज्ञानप्रत्यक्षमित्यादि॥अथ किं तदवधिज्ञानप्रत्यक्षं?, २ द्विविधं प्रज्ञप्तं, तद्यथा-भवप्रत्ययं चक्षायोपशमिकं च, तत्र भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म 'पुंनाम्नी'ति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः-कारणं यस्य तद्भवप्रत्ययं, प्रत्ययशब्दश्चेह कारणपर्यायः, वर्त्तते प्रत्ययशब्दः कारणत्वे, यत उक्तम्-'प्रत्ययः शपथे ज्ञाने, हेतुविश्वासनिश्चये' चशब्द: स्वगतदेवनारकाश्रितभेदद्वयसूचकः, तौ च द्वौ भेदौ अनन्तरमेव वक्ष्यति। तथा क्षयश्चोपशमश्च क्षयोपशमौ ताभ्यां निर्वृतं क्षायोपशमिकं, चशब्दः स्वगतानेकभेदसूचकः, तत्र यद्येषां भवति तत्तेषामुपदर्शयति-दोण्हमित्यादि, द्वयोर्जीवसमूहयोः भवप्रत्ययं, तद्यथादेवाना च नारकाणांच, तत्र दिव्यन्ति-निरुपमक्रीडामनुभवन्तीति देवाः तेषां, तथा नरान्कायन्ति शब्दयन्ति योग्यतया अनतिक्रमेणाकारयन्ति जन्तून् स्वस्थाने इति नरकाः तेषु भवा नारकाः तेषां, चशब्द उभयत्रापि स्वगतानेकभेदसूचकः, ते च संस्थानचिन्तायामग्रे दर्शयिष्यन्ते। ___अत्राह पर:-नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवश्चौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते?, नेष दोषः, यतस्तदपि परमार्थतः क्षायोपश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy