________________
मूलं - ५४
७५
इंदियमनोभवं जं तं संववहारपच्चक्खं ॥ "
अकलङ्कोऽप्याह-“द्विविधं प्रत्यक्षज्ञानं-सांव्यवहारिकं मुख्यं च, तत्र सांव्यवहारिकमिन्द्रियानिन्द्रियप्रत्यक्षं मुख्यमतीन्द्रियज्ञान" मिति, केवलमनोमात्रनिमित्तं श्रुतज्ञानं च लोकेऽपि परोक्षमिति प्रतीतं, नापि सूत्रे कचिदपि प्रत्यक्षमिति व्यवहतं ततो न तत्र कश्चिद्विवादः ।
तदेवं प्रत्यक्षं परोक्षं चेति भेदद्वयोपन्यासे कृते सति शिष्योऽनवबुध्यमानः प्रश्नं विधत्ते - मू. (५५)से किं तं पच्चक्खं ?, पच्चक्खं दुविहं पन्नत्तं, तंजहा- इंदियपच्चक्खं नोइंदियपच्चक्खं च ।
वृ. सेशब्दो मागधदेशीयप्रसिद्धो निपातोऽथशब्दार्थो वर्त्तते, अथशब्दार्थश्च प्रक्रियाद्यर्थाभिधायी, यत उक्तं- 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्विति, इह चोपन्यासार्थो वेदितव्यः, 'कि' मिति परप्रश्ने, तत्प्रागुपदिष्टं प्रत्यक्ष (क्षं कि) मिति ?, न्यायमार्गोपदर्शनार्थमाचार्यः शिष्यपृष्टपदानुवादपुरस्सरीकारणे प्रतिवचन-मभिधातुकाम आहपच्चक्खमित्यादि, एवमन्यत्रापि यथायोगं प्रश्नर्निवचनसूत्राणां पातनिका भावनीया।
प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा - इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, तत्र 'इदुपरमेश्वर्ये' उदितो नमि'ति नम् इन्दनादिन्द्रः- आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात्, तस्य लिङ्गं-चिह्नभविनाभावि इन्द्रियम् 'इन्द्रियमिति' निपातनसूत्राद्रूपनिष्पत्ति:, तत् द्विधा- द्रव्येन्द्रियं भावेन्द्रियं च, तत्र द्रव्येन्द्रियं द्विधा - निर्वृत्तिरुपकरणं च, निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा - बाह्या अभ्यन्तरा च तत्र बाह्या कर्णपर्यटकादिरूपा, सापि विचित्रा - न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहि मनुष्यस्य श्रोत्रे - भ्रूसमे नेत्रयोरुभयापार्श्वतः संस्थिते वाजिनो: मस्तके नेत्रयोरुपरिष्टाद्भाविनी तीक्ष्णे चाग्रभागे इत्यादिजातिभेदान्नानाविधाः, आभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना, तामेवाधिकृत्यामूनि सूत्राणि प्रावर्त्तिष्यन्तः ।
सोइंदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोअमा ! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोअमा ! मसूरचंदसंठाणसंठिए पन्नत्ते, घाणिदिए णं भंते! किंसिठाणसंठिए पन्नत्ते ?, गोयमा ! अइमुत्तसंठाणसंठिए पत्रत्ते, जिब्भिंदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोअमा ! खुरप्पसंठाणसंठिए पत्रत्ते, फार्सिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ? गोअमा ! नानासंठाणसंठिए पन्नत्ते"
इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायां तथाभिधानात्, उपकरणं खङ्गस्थानीयाया बाह्यनिर्वृत्तेर्या खङ्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिःतस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्य विधातसम्भवात्, तथाहि--सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरानिर्वृत्तावतिकठोरतरघनगर्जितादिना शक्त्युपधाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालिब्धरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोगः स्वस्वविषये लब्धिरूपेन्द्रियानुसारेण आत्मनो व्यापारः, इह च द्विविधमपि द्रव्यभावरूपमिन्द्रियं गृह्यते, एकतरस्याप्यभावे इन्द्रियप्रत्यक्षत्वानुपपत्तेः, तत्र इन्द्रियस्य प्रत्यक्षं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org