________________
७७
मूलं - ६०
मिक मेव, केवलं स क्षयोपशमो देवनारकभवेष्ववश्यंभावी, पक्षिणां गगनगमनलब्धिरिव, ततो भवप्रत्ययमिति व्यपदिश्यते, उक्तं च चूर्णौ- "ननु ओही खाओवसमिए भावे नारगाइभवो से उदइए भावे तओ कहं भवपच्चइओ भण्णइ ?, उच्यते, सोऽवि खओवसमिओ चेव, किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवइ, को दिट्टंतो ?, पक्खीणं आगासगमणं व तओ भवपच्चइओ भन्नइ”त्ति। तथा द्वयोः क्षायोपशमिकं, तद्यथा-मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिजानां च, अत्रापि चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ पञ्चेन्द्रियतिर्यग्मनुष्याणां चावधिज्ञानं नावश्यंभावि, ततः समानेऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपशमिकं ।
सम्प्रति क्षायोपशमिकस्वरूपं प्रतिपादयति- 'को हेतु: ?' किं निमित्तं यद्वशादवधिज्ञानं क्षायोपशमिकमित्युच्यते ?, तत्र निर्वचनमभिधातुकाम आह- क्षायोपशमिकं येन करणेन तदावरणीयानाम्-अवधिज्ञानावरणीयानां कर्मणामुदीर्णानां क्षयेण अनुदीर्णानाम्उदयावलिकामप्राप्तानामुपशमेन-विपाकोदयविष्कम्भलक्षणेनावधिज्ञानमुत्पद्यते, तेन कारणेन क्षायोपशमिकमित्युच्यते, क्षयोपशमश्च देशधातिरसस्पर्द्धकानामुदये सति भवति न सर्वधातिरसस्पर्द्धकांनाम्, अथ किमिदं देशघातीनि सर्वघातीनि वा रसस्पर्द्धकानीति ?, उच्यते, इह कर्म्मणां प्रत्येकमनन्तानन्तानि रसस्पर्द्धकानि भवन्ति, रसस्पर्द्धकस्वरूपं च कर्म्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भूयो दर्श्यते, तत्र केवलज्ञानावरणीयादिरूपाणां सर्वधातिनीनां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वधातीनि, देशधातिनीनां पुन: कानिचित्त् सर्वघातीनि कानिचिद्देशधातीनि तत्र यानि चतुः स्थानकानि त्रिस्थानकानि वा रसस्पर्द्धकानि तानि नियमतः सर्वधातीनि, द्विस्थानकानि पुनः कानिचिद्देशधातीनि कानिचित्सर्वधातीनि, एकस्थानकानि तु सर्वाण्यपि देशधातीन्येव, उक्तं च
"चउतिट्ठाणरसाणि य सवधाईणि होंति फड्डाणि । दुट्ठाणियाणि मीसाणि देसघाईणि सेसाणि ।। "
अथ किमिदं रसस्य चतुःस्थानकत्रिस्थानकत्वादि ?, उच्यते, इह शुभप्रकृतीनां रस: क्षीरखण्डादिरसोपमः अशुभप्रकृतीनां तु निम्बधोषातक्यादिरसोपमः, उक्तं च - 'घोसाडइनिंबुवमो असुभाण सुभाण खीरखंडुवमो' क्षीरादिरसश्च स्वाभाविक एकस्थानकः, द्वयोस्तु कर्षयोरावने कृते सति योऽवशिष्यते एक: कर्षकः स द्विस्थानकः, त्रयाणां कर्पाणामावर्त्तने कृते सति एकः कर्षोऽवशिष्यः त्रिस्थानकः, चतुर्णां कर्षणामावर्त्तने कृते सति उद्धरति य एकः कर्ष: स चतुः स्थानक:, एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकार्धचुलुकप्रसृत्यज्जलिकरककुम्भद्रोणादिप्रक्षेपात् मन्दमन्दतरादिबहुभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि, एवं कर्मणामपि चतुःस्थानकादयो रसा भावनीया: प्रत्येकमनन्तभेवभाजश्च कर्मणां चैकस्थानकादयो रसाः यथोत्तरमनन्तगुणा वेदितव्याः, उक्तं च
"अनंतगुणिया कमेणिरे" तत्राशुभप्रकृतीनां चतुः स्थानकरसबन्धः प्रस्तररेखासदृशैः अनन्तानुबन्धिक्रोधादिकैः क्रियते दिनकरातपशोषिततडाग भूरे खासदृशैरप्रत्याख्यानसंज्ञैः क्रोधादिभिः त्रिस्थानकरसबन्धः सिकताकणसंहतिगतरेखासदृशैः प्रत्याख्यानावरणसंज्ञैर्द्वि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org