________________
७२
नन्दी-चूलिकासूत्रं हरणोपन्यासार्थः, प्रत्यक्षंच परोक्षं च, तत्र अशुंव्याप्तौ' अश्रुते ज्ञानात्मना सर्वानर्थान् व्याप्नोतीत्यक्षः, अथवा 'अश् भोजने' अश्नाति सर्वान् अर्थान् यथायोगं भुंकते पालयति वेत्यक्षो-जीवः, उभयत्राप्यौणादिक: सक्प्रत्ययः, तं अक्षं-जीवं प्रति साक्षाद्वर्त्तते यत् ज्ञानं तत्प्रत्यक्षम्-इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमदवध्यादिकं त्रिप्रकारं, उक्तं च
"जीवो अक्खो अत्थव्वावणभोयणगुणनिओ जेणं।
तं पइ वट्टइ नाणं जं पच्चक्खं तयं तिविहं।।" चशब्दः स्वगतानेकावध्यादिभेदसूचकः, तथा अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते-पृथग्वर्तन्ते इत्यर्थः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं, पृषोदरादय इति रूपसिद्धिः, अथवा परैः-इन्द्रियादिभिः सह उक्षः-सम्बन्धो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षादात्मनो, धूमादग्निज्ञानमिव, तत्परोक्षम्, उभयत्रापिइन्द्रियमनोनिमित्तं ज्ञानमभिधेयम्। आह-इन्द्रियमनोनिमित्ताधीनं कथं परोक्षम्?, उच्यते, पराश्रयत्वात्, तथाहि-पुद्गलमयत्वाद्रव्येन्द्रिमनांस्यात्मनः पृथग्भूतानि, ततः तदाश्रयेणोपजायमानं ज्ञानमात्मनो न साक्षात्, किन्तु परम्परया, इतीन्द्रियमनोनिमित्तं ज्ञानं धूमादग्निज्ञानमिव परोक्षं,
"अक्खस्स पोग्गलमया जंदविंदियमणा परा होति।
__ तेहितो जं नाणं परोक्खमिह तमनुमानं व॥" अत्र वैशपिकादयः प्राहुः-नन्वक्षमिन्द्रियं श्रोतो हषीकं करणंस्मृतं, ततोऽक्षाणाम्-इन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षं, अक्षम्-इन्द्रियं प्रति वर्त्तते इति प्रत्यक्षव्युत्पत्तेः, तथा च सति सकललोके प्रसिद्धं साक्षादिन्द्रियाश्रितं घटदिज्ञानं प्रत्यक्षमिति सिद्धं, तदेतदयुक्तम्, इन्द्रियाणामुपलब्धृत्वासम्भवात्, तदसंभवश्चाचेतनत्वात्, तथा चात्र प्रयोगः-यदचेतनं तन्नोपलब्धृ, यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि, 'निर्वृत्त्युपकरणे द्रव्येन्द्रिय'मिति वचनात्, निवृत्त्युपकरणे च पुद्गलमये, यथा चानयोः पुद्गलमयता तथाऽग्रे वक्ष्यते, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानववोधरूपतया चैतन्यं प्रति धर्मित्वायोगात्, धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मम्मिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत्, न च भवति, तस्मादचेतनाः पुद्गलाः, उक्तं च
बोहसहावममुत्तं विसयपरिच्छेगयं च चेयन्नं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ ता धम्मधम्मिभावो कहमेसिं घडइ तहऽब्भुवगमेऽवि।
अनुरूवत्ताभावे काठिन्नजलाण किन्न भवे? ॥२॥" इति. नापि सन्दिग्धानेकान्तिकता हेतोः शङ्कनीया, अचेतनस्योपलम्भकत्वशक्त्ययोगाद्, उपलम्भकत्वं हि चेतनाया धर्मः, ततः स कथं तदभावे भवितुमर्हति?, आह-प्रत्यक्षवाधितेयं प्रतिज्ञा, साक्षादिन्द्रियाणामुपलम्भकत्वेन प्रतीतेः, तथाहि-चक्षुरूपंगहृदुपलभ्यते, शब्दं कण्णी, नासिका गन्धमित्यादि, तदेतत् मोहावष्टब्धान्तःकरणताविलसितं, तथाहि-आत्मा शरीरेन्द्रियैः सहान्योऽन्यानुवेधेन व्यवस्थितः, ततोऽयमात्मा अमूनिचेन्द्रियाणीति विवेक्तुमशक्नुवन्तो बालिश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org