SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ७१ मूलं - ५३ पुव्वं मइनाणं कथं, तस्स पिट्ठओ सुयं" ति । नन्वेते मति श्रुते सम्यक्तवोत्पादकाले युगपदुत्पत्तिमासादयतः, अन्यथा मतिज्ञानभावेऽपि श्रुतज्ञानाभावप्रसङ्गः, स चानिष्ट:, तथा मिथ्यात्वप्रतिपत्तौ युगपदेव चाज्ञानरूपतया परिणमतः, ततः कथं मतिपूर्वं श्रुतमुद्गीर्यते ?, उक्तं च“नाणानन्नाणाणि य समकालई जओ मइसुयाई । तो न सुयं मइपुव्वं मइनाणे वा सुयअन्नाणं ।।" नैष दोषो, यतः सम्यक्त्वोत्पत्तिकाले समकालं मतिश्रुते लब्धिमात्रमेवाङ्गीकृत्य प्रोच्यते, न तूपयोगम्, उपयोगस्य तथाजीवस्वाभाव्यतः क्रमेणैव सम्भवात्, मतिपूर्वं च श्रुतमुच्यते उपयोगापेक्षया, न खलु मत्युपयोगेनासञ्चिन्त्य श्रुतग्रन्थानुसारि विज्ञानमासादयति जन्तुः, ततो न कश्चिद्दोप:, आह च भाष्यकृत् - " इह लद्धिमइसुयाई समकालाई न तूवगोओ सिं । मइपुव्वं सुयमिह पुण सुओवओगो मइप्पभवो ॥" तथा कालविपर्ययस्वामित्वलाभसाधर्म्यात्, मतिश्रुतानन्तरमवधिज्ञानतमुक्तं, तत्र प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया यावान् मतिश्रुतयोः स्थितिकालः तावानेवावधिज्ञानस्यापि तथा यथैव मति श्रुते ज्ञाने मिथ्यादर्शनोदयतो विपर्ययरूपतयामासादयतः तथाऽवधिज्ञानमपि, तथाहिमिथ्यादृष्टेः सतः तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञान श्रुताज्ञानविभङ्गज्ञानानि भवन्ति, उक्तं च-‘“आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्त" मिति, तथा य एव मतिश्रुतज्ञानयो: स्वामी स एवावधिज्ञानस्यापि, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसम्भवः ततो लाभसाधर्म्यम् । अवधिज्ञानानन्तरं च छद्मस्थविषयभावप्रत्यक्षत्वसाधर्म्यात् मन: पर्यायज्ञानमुक्तं, तथाहियथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मनः पर्यवज्ञानमपीति छद्मस्थसाधर्म्यं, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे वर्त्तते तथा मन: पर्यायज्ञानमपीति भावसाधर्म्यं, यथा चावधिज्ञानं प्रत्यक्षं तथा मन:पर्यायज्ञानमपीति प्रत्यक्षत्वसाधर्म्यम्, उक्तं च “कालविवज्जयसामित्तलाभसाहम्मओवही तत् । मानसमित्तो छउमत्थविसयभावाइसाहम्मा ।।" तथा मनःपर्यायज्ञानान्तरं केवलज्ञानस्योपन्यास: सर्वोत्तमत्वादप्रमत्तयतिस्वामिसाधर्म्यात् सर्वावसाने लाभाच्च, तथाहि सर्वाण्यपि मतिज्ञानादीनि ज्ञानानि देशतः परिच्छेदकानि केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं, सर्वोत्तमं सर्वोत्तमत्वाच्चान्ते सर्वशिरः शिखरकल्पं उपन्यस्तं, तथा यथा मनःपर्यायज्ञानमप्रमत्तयतेरेवोदयेत तथा केवलज्ञानमप्यप्रमादभावमुपगतस्यैव तेर्भवति नान्यस्य, ततोऽप्रमत्तयतिसाधर्म्यं, यथा यः सर्वाण्यपि ज्ञानानि समासादियतुं योग्यः स नियमात् सर्वज्ञानावसाने केवलज्ञानमवाप्नोति, ततः सर्वान्ते केवलमुक्तम् । उक्तं च अंते केवलमुत्तमजइसामित्तावसाणलाभाओ" इति, तथा यथा मन: पर्यायज्ञानं न विपर्ययनासादयति तथा केवलज्ञानमपीति विपर्ययाभावसाधर्म्याच्च मन: पर्यायज्ञानान्तरं केवलज्ञानमुक्तमिति मू. (५४) तं समासओ दुविहं पन्नत्तं, तंजहा- पच्चक्खं च परोक्खं च ॥ वृ. ‘तत्' पञ्चप्रकारमपि ज्ञानं 'समासतः' संक्षेपेण 'द्विविधं' द्विप्रकारं प्रज्ञप्तं, 'तद्यथे' त्युदा. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy