SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मूलं-५४ ७३ जन्तवः, तत्रापि युष्मादृशां कुशास्त्रसम्पर्कतः, कुवासनासङ्गमः, ततः साक्षादुपलम्भकानी-- न्द्रियाणीति मन्यन्ते, परमार्थतः पुनरुपलब्धा तत्रात्मैव, कथमेतदवसीयत इति चेत्, उच्यते, तद्विगमेऽपि तदुपलब्धारर्थथानुस्मरणात्, तथाहि-कोऽपि पूर्वं चक्षुषा विवक्षितमर्थं गृहीतवान्, ततः कालान्तरे दैवविनियोगतः, चक्षुषोऽपगमेऽसि स तमर्थमनुस्मरति, तत्र यदि चक्षुरेव दृष्ट स्यात् ततः चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत्, न ह्यात्मना सोऽर्थोऽनुभूतः, किन्तु चक्षुषा, चक्षुष एव साक्षादृष्ट्रत्वेनोपगमात्, न चान्येनानुभूतेऽर्थेऽन्यस्य स्मरणं, मा प्रापदतिप्रसङ्गः, अपिच-मा भूच्चक्षुषोऽपगमः तथापि यदि चक्षुरेव द्रष्ट्र ततः स्मरणमात्मनो न भवेत्, अन्येनानुभूतेऽर्थेऽन्यस्य स्मरणायोगात्, भवति च स्मरणमात्मनः चक्षुषः स्मर्तृत्वेनाप्रतीतेरनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा नेन्द्रियमिति। ___ तथा चात्र प्रयोग:-यो येपुपरतेप्वपि तदुपलब्धानर्थान् स्मरति स तत्रोपलब्धा, यथा गवाक्षोपलब्धानामर्थानामनुस्मा देवदत्तः, अनुस्मरति च द्रव्येन्द्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमेऽप्यात्मा, इह स्मरणमनुभवपूर्वकतया व्याप्तं, व्याप्यव्यापकभावश्चानुभवस्मरणयोः प्रत्यक्षेणैव प्रतिपन्नः, तथाहि-योऽर्थोऽनुभूतः स स्मर्यते न शेषः, तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूतेऽपि विषये यदि स्मरणं भवेत् ततोऽननुभूतत्वाविशेषात् खरविषाणादेरपि स्मरणं भवेदित्यतिप्रसङ्गः, तस्मात् द्रव्येन्द्रियापगमेऽपि तदुपलब्धार्थानुस्मरणादात्मा उपलब्धेति स्थितं उक्तंच "केसिंचि इंदियाइं अक्खाइं तदुवलब्धि पच्चक्खं। तन्नो ताइं जमचेयाणइं जाणंति न घडोव्व॥१॥ उवलद्धा तत्थाया तव्विगमे तदुवलद्धसरणाओ। गेहगवक्खोवरमेवि तदुवलद्धानुसरिया वा ॥२॥" अत्र वाशब्द उपमार्थः । अपरेपुनराहुः-वयमिन्द्रियाणामुपलब्धृत्वं प्रतिजानीमहे, किन्त्वेतदेव ब्रूमो-यदिन्द्रियद्वारेण प्रवर्तते ज्ञानमात्मानि तत्प्रत्यक्षं, न चेन्द्रियव्यापारव्यवहितत्वादात्मा साक्षान्नोपलब्धेति वक्तव्यम्, इन्द्रियाणामुपलिब्धं प्रति करणतया व्यवधायकत्वायोगात्, न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति व्यपदेष्टुं शक्यम्, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वापरिज्ञानत्, इह हि यदाऽऽत्मा चक्षुरादिकमपेक्ष्य बाह्यमर्थमवबुध्यते तदाऽवश्यं चक्षुरादेः, साद्गुण्याद्यपेक्षते, तथाहि__यदा सद्गुणं चक्षुः तदा बाह्यमर्थं स्पष्टं यथावस्थितं चोपलभते, यदा तु तिमिराशुभ्रमणनौयानपित्तादिसंक्षोभदेशदवीयस्ताद्यापादितविभ्रमंतदा विपरीतं संशयितं वा, ततोऽवश्यमात्मा अर्थोपलब्धौ पराधीनः, तथा च सति यथा राजा निजराजदौवारिकेणोपदर्शितं परराष्ट्रराजकीयं पुरुषं पश्यन्नपि समीचीनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्येति न साक्षात्, तद्वदात्मापि चक्षुरादिनोपदर्शितं बाह्यमर्थं चक्षुरादिप्रत्यय एव समीचीनमसमीचीनं वा वेत्ति, न साक्षात्, तथाहि-चक्षुरादिना दर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तर्हि चक्षुरादिसाद्गुण्यमेव प्रतीत्य निश्चयं विदधाति, यथान मे चक्षुस्तिमिरोपप्लुतं, न नौयानाशुभ्रमणाद्यापादितविभ्रमं, ततोऽयमर्थः समीचीन इति, ततो यथा राज्ञो नायं मम राजदौवारिकोऽसत्यालापी कदाचना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy