________________
मूलं-५
संयमश्च तपांसि च संयमतपांसि तुम्बं च अराश्च-अरक: तुम्बाराः संयमतपस्येव यथासंख्यं तुम्बारा यस्य तत्तथा तस्मै संयमतपस्तुम्वाराय नमः, सूत्रे षष्ठी प्राकृतलक्षणाच्चतुर्थ्यर्थे वेदितव्या, उक्तं च-'छट्टिविहत्तीए भनाइ चउत्थी,' तथा 'सम्मत्तपारियल्लस्स' सम्यक्त्वमेव पारियल्लंबाह्यपृष्ठस्य बाह्या भ्रमिर्यस्य तत्तथा तस्मै नमः, गाथार्द्ध व्याख्यातं, तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तदप्रतिचक्रं, चरकादिचक्रैरसमानमित्यर्थः, तस्य जयो भवतु सदा' सर्वकालं, सङ्घश्चक्रमिव सङ्घचक्रं तस्य।. .
सम्प्रति सङ्घस्यैव मार्गगामितया रथरूपकेण स्तवमभिधित्सुराहमू. (६) भई सीलपडागूसियस्स तवनियमतुरयजुत्तस्स।
संघरहस्स भगवओ सज्झायसुनंदिघोसस्स।। ७.'भद्रं' कल्याणं सङ्घरथस्य भगवतो भवत्विति योगः, किंविशिष्टस्य सतः इत्याह-'शीलोच्छ्रितपताकस्य' शीलमेव-अष्टादशशीलाङ्गसहस्ररूपमुच्छ्रिता पताका यस्य सतथा, भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्युपगमादुच्छ्रितशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विशेषणपूर्वापरनिपातनियमोऽस्ति, यथाकथञ्चित्पूर्वपिप्रणीतेषु वाक्येषु विशेषणनिपातदर्शनात्, 'तपोनियमतुरङ्गयुक्तस्य' तपःसंयमाश्वयुक्तस्य,
तथा स्वाध्यायः-पञ्चविधः, तद्यथा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा च, स्वाध्याय एवसन्-शोभनो नन्दिघोषो-द्वादशविधतूर्यनिनादो यस्य सतथा तस्य, सज्झायसुनेमिधोसस्से'ति क्वचित्पाठः, तत्र स्वाध्याय एव शोभनो नेमिघोषो यस्येति दृष्टव्यम्, इह शीलाङ्गप्ररूपणे सत्यपि तपोनियमप्ररूपणं तयोः प्रधानपरलोकाङ्गत्वख्यापनार्थं, अस्ति चायं न्यायो यदुत-सामान्योक्तावपि प्राधान्यख्यापनार्थं विशेषाभिधानं क्रियते, यथा ब्राह्मण आयाता वशिष्टोऽप्यायात इति, एवमन्यत्रापि यथायोगं परिभावनीयम्।
सङ्घस्यैव लोकमध्यवर्तिनोऽपि लोकधर्मासंश्लेषतः पद्मरूपकेण स्तवं प्रतिपादयितुमाहमू.(७) कम्मरयजलोहविनिग्गयस्ससुयरयणदीहनालस्स।
पंचमहव्वयथिरकन्नियस्स गुणकेसरालस्स॥ . वृ.कर्म-ज्ञानावरणाद्यष्टप्रकारं तदेव जीवस्य गुण्डनेन मालिन्यापादनाद्रजो भण्यते कर्म रज एव जन्मकारणत्वाज्जलौघः तस्माद्विनिर्गत इव विनिर्गतः कर्मरजोजलौधविनिर्गतः तस्य, इह पद्मं जलौधाद्विनिर्गतं सुप्रतीतं, जलौधस्योपरि तस्य व्यवस्थित्वात्, सङ्घस्तु कर्मरजोजलौधाद्विनिर्गतोऽल्पसंसारत्वादवसेयः, तथा च अविरतसम्यग्दृष्टेरप्यपार्द्धपुद्गलपरावर्त्तमान एव संसारः, अत एव विनिर्गत इवेति व्याख्यातं, न तु साक्षाद्विनिग्गर्तः, अद्यापि संसारित्वात्, तथा श्रुतरत्नमेव दीर्घो नालो यस्य स तथा तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्मरजो जलौधतः तद्बलाद्विनिर्गतेः, तथा पञ्च महाव्रतान्येव-प्राणातिपातादिविरमणलक्षणानि स्थिरादृढा कर्णिका-मध्यगण्डिका यस्य तत्तथा तस्य, तथा गुणाः-उत्तरगुणाः त एव पञ्चमहाव्रतरूपकर्णिकापरिकरभूतत्वात् केसरा इव गुणकेसरा: ते विद्यन्ते यस्य तत्तथा तस्य, अत्र 'मतुवत्थंमि मुणिज्जह आलं इल्लं मणं तह य' इति प्राकृतलक्षणात् मत्वर्थे आलप्रत्ययः। .
तथा ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुव्रता अपि प्रतिदिवसं यतिभ्यः साधूनामगारिणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org