________________
४४
मू. ( ४ )
गुणभवणगहण सुयरयणभरिय दंसणविसुद्धरत्थागा । संघनगर ! भद्दं ते अखंडचारित्तपागारा ॥
वृ. गुणा इह उत्तरगुणा गृह्यन्ते, मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात्, ते चोत्तरगुणाः पिण्डविशुद्धादयो, यत उक्तम्
" पिंडस्स जा विसोही समिईओ भावना तवो दुविहो । पडिमा अभिग्गाहावि य उत्तरगुण मो वियाणाहि ॥"
त एव भवनानि तैर्गहनं-गुपिलं प्रचुरत्वादुत्तरगुणानां निरुपमसुखहेतुत्वाद्रत्नानि श्रुतरत्नानि तैर्भृतं - पूरितं तस्यामन्त्रणं हे श्रुतरत्त्रभृत! तथा 'दर्शनविशुद्धरथ्याक' ! इह दर्शनं-- प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनमिति गृह्यते, तच्च क्षायिकादिभेदात् त्रिधा, तद्यथा-- क्षायिकं क्षायोपशमिकमौपशमिकं च, उक्तं च
नन्दी - चूलिकासूत्र
"
--
"सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खइयं चे "ति, तत्र त्रिविधस्यापि दर्शनमोहनीयस्यक्षयेण निर्मूलमपगमेन निर्वृत्तं क्षायिकं, उदयावलिकाप्रविष्टस्यांशस्य क्षयेण शेषस्य तूपशमेन निर्वृत्तं क्षायोपशमिकं उदयावलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य भस्मच्छन्नाग्नेरिवानुद्रेकावस्था उपशमः तेन निर्वृत्तमौपशमिकम्, आह औपशमिकक्षायोपशमिकयोः कः प्रतिविशेष: ?, उच्यते, क्षायोपशमिके तदावारकस्य कर्म्मणः प्रदेशतोऽनुभवोऽस्थि न त्वौपशमिके इति । दर्शनमेवासारमिथ्यात्वादिकचवररहिता विशुद्धरथ्या यस्य तत्तथा, तस्यामन्त्रणं हे दर्शनविशुद्धरथ्याक! 'सेल्र्लोपः सम्बोधने ह्रस्वो वे 'ति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचना(र्थत्वा) तू दीर्घनिर्देशो, यथा गोयमा इत्यत्र, सङ्घः- चातुर्वर्णः श्रमणादिसङ्घातः स नगरमिव सङ्घनगरं 'व्याघ्रादिभिर्गौणैस्तदनुक्ता' विति समासो, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः, तस्यामन्त्रणं हे सङ्घनगर! 'भद्रं' कल्याणं 'ते' तव भवतु अखण्डचारित्रप्रकार ! चारित्रं- मूलगुणाः अखण्डम्-अविराधितं चारित्रमेव प्राकारो यस्य तत्तथा 'मांसादिषु चेति' प्राकृतलक्षणात् चारित्रशब्दस्यादौ हस्वः तस्यामन्त्रणं हे अखण्डचारित्रप्राकार! दीर्घत्वं प्रागिव ॥ भूयोऽपि सङ्घस्यैव संसारोच्छेदकारित्वाच्चक्ररूपकेण स्तवमाहमू. (५) संजमतवतुंबारयस्स नमो सम्मत्तपारियल्लस्स । अप्पडिचक्कस्स जओ होउ सया संघचक्कस्स ॥
वृ. संयमः - सप्तदश प्रकार: यदुक्तम्
11
"पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः || १ || ”
तपो द्विधा बाह्यमाभ्यन्तरं च, तत्र बाह्यं षड्विधं, यदुक्तम्"अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेश: संलीनतेति बाह्यं तपः प्रोक्तम् ॥१॥" आभ्यन्तरमपि षोढा, यत उक्तम्
"प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥ २३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org