________________
मूलं - ३
स्ति, अन्यथा तस्य धर्म्मा इति सङ्गानुपपत्तेः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्यानभ्युपगमात्, नापि दोपक्षयवदात्मनोऽपि क्षयः, केवलाभेदस्यानभ्युपगमादिति सर्वं सुस्थम् ।
ननु येनैवक्रमेण भगवतोऽतिशयलाभः तेनैव क्रमेण तदभिधानं युक्तिमत् नान्यथा भगवतश्च प्रथमतोऽपायागमातिशयस्य लाभ: पश्चात् ज्ञानातिशयस्य तत्किमर्थं व्युत्क्रमनिर्देश: ?, उच्यते, फलप्रधानाः समारम्भा इति ज्ञापनार्थं । तथा 'भद्रं' कल्याणं भवतु, सुरैः शुक्रादिभिः असुरै:चमरादिभिर्नमस्कृतस्य, अनेन पूजातिशयमाह, न हि विभवानुरूपां भगवतः पूजामकृत्वा सुरासुरा नमस्कृतिक्रियायां प्रवृत्तिमातेनुः, तथाकल्पत्वात्, पूजां च ते कृतवन्तोऽष्टमहाप्रातिहार्यलक्षणां, तानि च महाप्रातिहार्याण्यमूनि
४३
"
'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपात्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥" पूजातिशयश्चान्यथानुपपत्त्या वागतिशयमाक्षिपति, न हि वागतिशयमन्तरेण तथा पूजातिशयो भवति, सामान्यकेवलिनामदर्शनात्, तदेवं ज्ञानातिशयादयश्चत्वारो मूलातिशया उक्ताः, एते च देहसौगन्धयादीनामतिशयानामुपलक्षणम्, एतेषु सत्सु तेषामवश्यं भावात् ।
तथा 'भद्रं कल्याणं भवतु 'धूतरजसः' धूतं - कम्पितं स्फोटितं रजो-बध्यमानं कर्म्म येन सधूतरजाः तस्य, अनेन सकलसांसारिकक्लेशविनिर्मुक्तावस्थामाह, यतो बध्यमानकं कर्म जो भण्यते, बध्यमानकर्माभावश्चायोगिसिद्धावस्थां गतस्य, नार्वाचीनावस्थायां, यत उक्तं सूत्रे
-
"जाव नं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुब्भइ उदीरइ तं तं (भावं) परिमणइ ताव नं अट्ठविहबंध वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा, नो चेव नं अबंधए सिआ" तत्र मिथ्यादृष्टयादयो मिश्रवज्जिता अप्रमत्तान्ता आयुर्बन्धकालेऽष्टानामपि कर्म्मणां बन्धकाः, शेषकाले त्वायुर्वर्जानां सप्तानां एतेषामेव सप्तकर्मणां मिश्रापूर्वकरणानिवृत्तिबादरा अपि बन्धकाः, सूक्ष्मसम्पराया मोहायुर्वर्जानां षण्णां कर्मणाम्, उपशान्तमोहक्षीणमोहसयोगिकेवलिनः सातवेदनीयस्यैवैकस्य, तच्च सातवेदनीयं तेषां द्विसामयिकं, तृतीयसमयेऽवस्थानाभावात्, शैलेशीप्रतिपत्तेरारभ्य पुनर्योगाभावादबन्धकाः उक्तं च
"सत्तविहबंधगा होंति पानिनो आउवज्जगाणं तु । तह सुहुमसंपराया छविहबंधा विणिदिट्ठा || १ || " मोहाउयवज्जाणं पयडीणं ते उबंधगा भणिया । उवसंतखीणमोहा केवलिनो एगविहबंधा ॥२॥ तं पुन दुसमयठिइयस्स बंधगा न उन संपरायस्स । सेलेसीपडिवन्ना अबंधगा होंति विन्नेया || ३ ||
अथ भगवान् संसारातीतत्वात् सदैव परमकल्याणरूपः तत्किमेवमुच्यते तस्य भद्रं भवतु ?, न च स्तोत्रा भणितं सर्वमेव तथा भवति, अन्यत्र तथाऽदर्शनात्, अत्रोच्यते, सत्यमेतत्, तथाप्येवमभिधानं कर्तृश्रोतॄणांकुशलमनोवाकायप्रवृत्तिकारणमतो न दोषः ।
तदेव वर्त्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वाद्वर्द्धमानस्वामिनो नमस्कारमभिधाय सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन् सङ्घस्य नगररूपकेण स्तवमाह
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org