________________
४२
-
नन्दी-चूलिकासूत्रं अभिलाषाच्च तवृत्तिरित्यन्योऽन्यसमाश्रयः ॥" अथानादिवासनावशात्प्रकृतिविषयौ स्मरणाभिलाषौ, तदप्यसत्, वासनाया अपि प्रकृतिविकारतया प्रकृतेः पूर्वमभावात्, अथात्मस्वभावरूपा सा वासना तहि तस्याः कदाचनाप्यात्मन इवोपरमासम्भवात्सर्वदाऽप्यमुक्तिरेवेति यत्किञ्चिदेतत्। यदप्युक्तम्_ 'रागादयो धर्माः, ते च किं धम्मिणो भिन्ना अभिन्ना वा इत्यादि,' तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात्, केवलभेदाभेदपक्षे धर्मधर्मभावस्यानुपपद्यामानत्वात्, तथाहिधर्मधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो नि:स्वभावतापत्तिः, स्वभावस्य धर्मात्यात्तस्य च ततो न्यत्वात्, स्वो भावः स्वभावः-तस्यैवात्मीया सत्ता, न तु तदर्थान्तरं धर्मरूपं, ततो न निःस्वभावतापत्तिरिति चेत्, न, इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरसत्तासामान्ययोगकल्पनाया वैयर्थ्यप्रसङ्गात्, अपिच-यद्येकान्तेन धर्मधर्मिणोर्भेदः ततो धम्मिणो ज्ञेयत्वादिभिः धम्मैरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, न ह्यज्ञेयस्वभावं ज्ञातुं शक्यत इति, तथा च सति तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात्, तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् कदाचिदप्यनवगतस्य षष्ठभूतादेर्भावापत्तेः, एवं च धर्म्यभावे धर्माणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः, न हि धाधाररहिताः क्वापि धाः सम्भवन्ति, तथाऽनुपलब्धेः, __ अन्यच्च-परस्परमपितेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यननुवेधात् कथं भावाभ्युपगम: ?, तदन्यसत्त्वादिधर्माभ्युपगमे च धम्मित्वप्रसक्तिरनवस्था च, तन्नैकान्तभेदपक्षे धर्मिधर्मभावः, नाप्येकान्ताभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्ममात्रं वा स्याम्मिमात्रं वा, अन्यथैकान्ताभेदानुपपत्तेः, अन्यतराभावे चान्यतरस्याप्यभावः, परस्परनान्तरीयकत्वाद्, धर्मनान्तरीयको हि धर्मी, धम्मिनान्तरीयकाश्च धाः, ततः कथमेकाभावेऽपरस्यावस्थानमिति?, कल्पितो धर्मम्मिभावः ततो न दूषणमिति चेत् तर्हि वस्त्वभावप्रसङ्गः, न हि धर्मधम्मिस्वभावरहितं किञ्चिद्वस्त्वस्ति, धर्मम्मिभावश्च कल्पित इति तदभावप्रसङ्गः, धर्मा एव कल्पिता न धर्मी तत्कथमभावप्रसङ्ग इति चेत्, न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात्, तदभावे च धमिणोऽप्यभावापत्तेः, अथ तदेवैकं स्वलक्षणं सकलसजातीयविजातीयव्यावृत्त्येकस्वभावं, धम्मिव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धाः, ततो न कश्चिन्नो दोषः, तदप्ययुक्तम्, एवं कल्पनायां वस्तुतोऽनैकान्तात्मकताप्रसक्तः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात्, न हियेनैवस्वभावेन घटाद् व्यावर्त्तते पटः तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तेः, तथाहि-घटाद् व्यावर्तते पटो घटव्यावृत्तिस्वभावतया स्तम्भादपि घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटरूपताप्रसक्तिः, अन्यथा तत्स्वभावतया व्यावृत्त्ययोगात्, तस्माद्यतो यतो व्यावर्त्तते तत्तव्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, तेच नैकान्तेन धम्मिणीऽभिन्नाः, तदभावप्रसङ्गात्, तथा च तदवस्थ एव पूर्वोक्तो दोषः तस्माद्भिन्नाभिन्नाः, भेदाभेदोऽपि धर्मधम्मिणोः कथमिति चेत्, उच्यते, इह यद्यपि तादात्म्यतो धम्मिणां धाः सर्वेऽपिलोलीभावेन व्याप्ताः तथाऽप्ययं धर्मी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वादभेदोऽप्य
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only