________________
मूलं-३४७
४७३ निराधिक्ये चयनं चयः-पिण्डीभवनं अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयोसामान्याभावः तदर्थ-तन्निमित्तं व्रजति-प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः क्व ?-'सर्वद्रव्येषु' सर्वद्रव्यविषये, लोके हि घटस्तम्भाम्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो लोकव्यवहारानङ्गत्वात्सामान्यमसौ नेच्छतीति भावः, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसाधुच्यते, युक्तिश्चात्रापिलेशतः प्रागुक्तैव, अथवा विशेषेण निश्चयो विनिश्चयः-आगोपालद्यङ्गाना[2]ववोधो न कतिपयविद्वत्सम्बद्धः तदर्थ व्रजति व्यवहारनयः सर्वद्रव्येषु, उदमुक्तं भवति-यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालगनादीनां यत्रैव क्वचिदेकस्मिन् स्थले कालनीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान, लोकव्यवहारपरत्वादेवेति गाथार्थः॥ _ 'पच्चुप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते वर्तमानकालभावीत्यर्थः, तद्ग्रहीतुंशीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिMणितव्यः, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु-अकुटिलं वर्तमानकालभाविवस्तु सूत्रयतीति ऋजुसूत्रः, अतीतानागतयोविनाशानुत्पत्तिभ्यामसत्त्वाद्, असदभ्युपगमश्च कुटिल इति भावः, अथवा ऋजु-अवकं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैकमिच्छतीत्यर्थः, उक्तं च
"सुयनाणे अनिउत्तं, केवले तयनंतरे।। - अप्पणो य परेसिं च, जम्हा तं परिभावगं ॥"ति, अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति, परकीयस्य स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरंच-भिन्नलिङ्गभिनवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तट: तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेर्नामस्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाननयस्त्वतिविशुद्धत्वाल्लिङ्गवचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नामस्थापनाद्रव्याणि च नाम्युपगमिष्यतीति भावः, इत्युक्त ऋजुसूत्रः, अथशब्द उच्यते-तत्र शपआक्रोशे' शप्यते-अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, अयं च प्रत्युत्पन्न-वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि-तटस्तटी तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्रीपुरुषनपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुव इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात्पुरुषः पुरुषा इत्यादिवदिति, नामस्थापनाद्रव्यरूपाश्चनेन्द्राः, तत्कार्याकरणात्, खपुष्पवदिति प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्गवचनानां तु बहूनामपि शब्दानामेकमभिधे यमसौ मन्यते, यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः ।। ___ 'वत्थूओ' इत्यादि, वस्तुनः-इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यं, भवति अवस्तु अभवतीत्यर्थः, क्वेत्याह-नये समभिरूढनयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:-इन्द्रशक्रपुरन्दरादिशब्दान् अनन्तरं शब्दनयेन एकाबिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, भित्रप्रवृत्तिनिमित्तत्वात्, सुरमनुजादिशब्दवत्, तथाहि-इन्दतीति इन्द्रः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org