________________
४७२
अनुयोगद्वार - चूलिकासूत्रं
पदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थपदविग्रहादिनियोग: सर्वोऽपि सूत्र स्पशिनिर्युक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषयः ततो वस्तुवृत्त्या सूत्रस्पर्शिकनियुक्त्यन्तर्भाविन एव नया:, आह च भाष्यकार:
"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्ताला गनासो नामाइन्नासविनिओगं ॥ १ ॥ सुत्तफासियनिज्जुत्तिविनिओगो सेसओ पयत्थाइ । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ २ ॥
अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः
"सुत्तं सुत्तानुगमो सुत्तालावयकओ य निक्खेवो । सुत्तफासियनिज्जुत्ती नया य समगं तु वच्वंति ॥"
इत्यलं विस्तरेण । 'से त्तं अनुगमे 'त्ति अनुगमः समाप्तः ॥ अथ नयद्वारमभिधित्सुराहमू. ( ३४३ ) से किं तं नए ?, सत्त मूलनया पन्नत्ता, तंजहा- नेगमे संगहे ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूए, तत्थ
मू. ( ३४४ )
मू. (३४५ )
नेगेहिं मानेहिं मिनइत्ति नेगमस्सं य निरुत्ती । सेसाणंपि नयाणं लक्खनमिनमो सुणह वोच्छं ॥ संगहि अपिंडिअत्थं संगहवयणं समासओ बिंति । वच्च विनिच्छिअत्थं ववहारो सव्वदव्वेसुं ॥ पच्चुप्पन्नग्गी उज्जुसुओ नयविंही मुनेअव्वो । इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सद्दो ॥ वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे । वंजण अत्थतदुभयं एवंभूओ विसेसेइ ॥
मू. ( ३४६ )
मू. ( ३४७ )
वृ. अथ कोऽयं पूर्वोक्तशब्दार्थो नयः ?, तत्रोत्तरभेदापेक्षया ससैव मूलभूता नया मूलनयाः, तद्यथा - नैगम इत्यादि, तत्र नैगमं व्याचिख्यासुराह - नेगेहिमित्यादि गाथा, व्याख्या-न एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः - महासत्तासामान्यविशेषादिज्ञानैर्मिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगम: इतीयं नैगमस्य निरुक्तिः - व्युत्पत्तिः, अथवा निगामा-लोके वसामि तिर्यग्लोके वसामीत्यादयः पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽमिति गाथार्थः ॥
यथाप्रतिज्ञातमेवाह- 'संगहिअ ' गाहा, व्याख्या- सम्यग् गृहीत- उपात्त: सङ्गृहीतः पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत्सङ्गृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' संक्षेपतो ब्रुवते तीर्थकरणगणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सङ्गृहीतसामान्यार्थमेव भवति, अत एव सङ्गृह्णाति - सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽमुच्यते, युक्तिश्चात्र लेशतः प्राग्दर्शितैव 'वच्चई' त्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org