________________
४७१
मूलं-३४२
य(त)त्राल्पाक्षरंमिताक्षरं, यथा सामायिकसूत्रम्, असन्दिग्धं-सैन्धवशब्दवद्यल्लवणवसनतुरगाद्यनेकार्थसंशयकारिन भवति, सारवरंच पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षम, यथा-'धम्मो मंगलमुक्किट्ठ'मित्यादिश्लोके चत्वारोऽप्यनुयोगो व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यथो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिँश्च व्याख्याने पञ्चैवैते गुणा भवन्ति, स्तोभका:-चकारवाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम्, अनवद्यं कामादिपापव्यापाराप्ररूपकं, एवंभूतं सूत्रं सर्वज्ञभाषितमिति। __यैस्तु पूर्वे अष्ट सूत्रगुणाः प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणास्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रह प्रतिपादयन्ति । एवं सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते यदुतैतत्स्वसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदं, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदं, अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके, अन्ये तु व्याचक्षते-प्रकृतिस्थित्यनुभावप्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम्, [सद्बोधकारणत्वात्] कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति।
अह-नन्वत्र व्याख्याने बन्धमोक्षप्रतिपादकं पदद्वयं स्वसमयपदानातिरिच्यते तत्किमिति भेदेनोपन्यासः ?, सत्यं, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति, सामायिकव्यतिरिक्तानां नारकतिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतश्च सूत्रोच्चारणस्य फलं दर्शितम्, इदमुक्तं भवति-यतः सूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगताः-परिज्ञाता भवन्ति, केचितु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थ पदेन पदंवर्णयिष्यामि, एकैकं पदं व्याख्यास्यामित्यर्थः । तत्र व्याख्यालक्षणमेव तावदाह___ "संहिया ये'त्यादि, तत्रास्खलितपदोच्चारणं संहिता, यथा 'करोमि भयान्त! सामायिक'मित्यादि, पदंतु करोमीत्येकं पदं भयान्त इति द्वितीयं सामायिकमिति तृतीयम् इत्यादि, पदार्थस्तु करोमीत्यभ्युपगमो भयान्त इति गुमन्त्रणं समस्यायः सामायिकमित्यादिकः, पदविग्रह समासः, सचानकपदानामेकत्वापादनविषयो यथा भयस्यान्तो भयान्त इत्यादि, सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना, तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः, एते च चालनाप्रसिद्धी आवश्येक सामायिक व्याख्यावसरे स्वस्थान एव विस्तरवत्यौ दृष्टव्ये, एवं षड्विधं 'विद्धि'जानीहि लक्षणं व्याख्याया इति प्रक्रमाद्गम्यते इति श्लोकार्थः।। __ अत्राह-नन्वस्याः षड्विधव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषयः ? को वा सूत्रालापकनिक्षेपस्य? कश्च सूत्रस्पर्शिकनियुक्तेः? किं वा नयैर्विषयीक्रियते?, उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org