________________
४७४
अनुयोगद्वार-चूलिकासूत्रं शक्नोंतीति शक्रः पुरं दारयतीति पुरन्दरः, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गो, घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं चसति यदा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण, उक्तः समभिरूढः।
'वंजणअत्थे'त्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं-यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूतं-प्राप्तमितिकृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नेयोऽप्युपचारादेवंभूतः, अथवा एवं-य: शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवं भूतः-प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते, स एवंभूतो नयः किमित्याह-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं-शब्द: अर्थस्तु-तदभिधेयवस्तुरूप: व्यञ्जनं चार्थश्च व्यञ्जनार्थौ तौ च तौ तदुभयं चेति समासः, व्यञ्जनार्थशब्दयोय॑स्तनिर्देश: प्राकृतत्वात्, तद्व्यञ्जनार्थतदुभयं विशेषयति-नैयत्येन स्थापयति, इदमत्र हृदयम्-शब्दमर्थनार्थ च शब्देन विशेषयति, यथा 'घटचेष्टायां' घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् नान्यदा, घटध्वनेरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते, घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भावः, इति गाथार्थः ।।
उक्ता मूलनया:, एषां चोत्तरोत्तरभेदप्रभेदा आवश्यकादिभ्योऽवसेयाः। एते च सावधारणाः सन्तो दुर्नयाः, अवधारणविरहितास्तु सुनयाः, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया।। अत्राह कश्चित्-ननूक्ता एते नयाः, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनं। पुनरप्याह-नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाधययनस्य वा?, यद्याद्यः पक्षः सन युक्तः, प्रतिसूत्रं नयविचारस्य ननया समोयरंति इह' मित्यनेन निषिद्धत्वाद्, अथापर: पक्षः साऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातनिर्युक्तौ 'नए समोयारनानुमए' इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययन मस्ति यन्त्रयैर्विचार्यते, अत्रोच्यते, यस्तावत्प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च - __ 'आसज्ज उसोयारं नए नयविसारओ बूया' इत्यनेनापवादिक: सोऽनुज्ञात एव, यदप्युच्यते'समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घाते'त्यादि, तत्समयानभिज्ञस्यैव वचनं, यस्मादिदमेव चतुर्थानुयोगद्वारंनयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव तेषां तत्रोपन्यासः, यदप्युक्तम् 'न च सूत्रव्यतिरिक्तमध्ययन'मित्यादि, तदप्यसारं, समुदायसमुदायिनोः कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि-प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्यं शिविकावाहकपुरुषसदामुदाये उपलभ्यते, एवं च प्रत्येकसमुदितावस्थयोः कार्यभेदः शिविकावाहनादिषु सामर्थ्यासामर्थ्यलक्षणो विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि न
Jain Education International
For Private & Personal Use Only
www.
www.jainelibrary.org