________________
४४०
अनुयोगद्वार-चूलिकासूत्रं कम्मधारएणं?, जइ तत्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि, धम्मे असे पएसे असे पएसे धम्मे अहम्मे असे पएसे असे पएसे अहम्मे
आगासे असे पएसे अ से पएसे आगासे जीवे अ से पएसे अ से पएसे नोजीवे खंधे असे पएसे अ से पएसे नोखंधे, एवं वयंतं समभिरूढं संपइ एवंभूओ भणइ-जं जं भणसि तं तं सव्वं कसिणं पडिपुत्रं निरवसेसं एगगहणगहियं देसेऽवि मे अवत्थू पएसेऽवि मे अवत्थू। से तंपएसदिलुतेणं से तं नयप्पमाणे।
वृ.प्रकृष्टो देशः प्रदेशो-निविभागो भाग इत्यर्थः, स एव दृष्टान्तस्तेनअनयमतानि चिन्त्यन्तेतत्र नैगमो भणति-पण्णां प्रदेशः तद्यथा-'धम्मपएसे'इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः, एवमधर्माकाशजीवास्तिकायेष्वपि योज्यं, स्कन्धः-पुद्गलद्रव्यनिचयस्तस्य प्रदेश: स्कन्धप्रदेशः, देशः-एषामेव पञ्चानां धर्मास्तिकायाद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवस्तस्य प्रदेशो देशप्रदेशः, अयं च प्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तं, विशेषविवक्षायां तु षट् प्रदेशाः।
एवं वदन्तं नैगमं ततो निपुणतर: संग्रहो भणति-यद्भणसिषण्णां प्रदेश इति, तन्न भवतितन्त्र युज्यते, कस्मात् ?, यस्माद् यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं, तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य यः प्रदेशः स वस्तुवृत्त्या तस्यैव द्रव्यस्य यत्सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिक्तिस्य देशस्य यः प्रदेश: स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टान्त इत्याह___ 'दासेणे'त्यादि, लोकेऽप्येवं व्यवहृतिर्दश्यते, यथा कश्चिदाह-मदीयदासेन खरः क्रीतः, तत्र दासोऽपि मदीयः खरोऽपि मदीयः, दासस्य मदीयत्वात्, तत्क्रीतः, खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात्तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भावः, तस्मान्मा भणषण्णां प्रदेशः, अपि त्वेवं भणपञ्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवाघटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि तत्प्रदेशाश्चेत्येवमप्यविशुद्धसंग्रह एव मन्यते, अवान्तरद्रव्ये सामान्यद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रद्देशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्रसङ्गेन। __ प्रकृतमुच्यते-एवं वदन्तं संग्रहं ततोऽपि निपुणो व्यवहारो भणति-यद्भणसि पञ्चानां प्रदेश इति, तन भवति-न युज्यते, कस्माद् ?, यदि यथा पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यम्-एकं भवति, तद्यथा-हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्यते वक्तुंपञ्चानां प्रदेश इति, इदमुक्तं भवति-यथा केषाञ्चित्पञ्चानां पुरुषाणां साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित्साधारणः प्रदेशः स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्, तस्मान्माभण पञ्चानां प्रदेशः, अपि तु भण-पञ्चविधः-पञ्चप्रकार: प्रदेश: द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह 'धर्मप्रदेश' इत्यादि।
एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यद्भणसि पञ्चविधः प्रदेशः, तन्न भवति, कस्माद् ?, यस्माद्यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः पञ्चविधः प्राप्तः, शब्दादत्र
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org