SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ मूलं - ३१० ४४१ वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति, तस्मान्मा भण- पञ्चविधः प्रदेश: किन्त्वेवं भण-भाज्य: प्रदेशः स्याद्धर्मस्येत्यादि, इदमुक्तं भवति-भाज्यो-विकल्पनीयो विभजनीयः प्रदेशः, कियद्भिर्विभागैः ? - स्याद्धर्मप्रदेश इत्यादि पञ्चभि:, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात्, प्रस्तुतनयमतेनासत्त्वादिति । एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति - यद्भणसि - भाज्यः प्रदेशः, तत्र भवति, कुतो ?, यतो यदि भाज्य: प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्याद्, अधर्मास्तिकाय प्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेशः स्याद् इत्थमपि भजनाया अनिवारितत्वाद्, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरितिं, एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यं, तदेवं नैयत्वाभावात्तवाप्यनवस्था प्रसज्येतेति, तन्मैवं भण-भाज्यः प्रदेशः, अपि तु इत्थं भण-' 'धम्मे परसे (से पएसे धम्मे) ' इत्यादि, इदमुक्तं भवति-धर्म: प्रदेश इति-धर्मात्मकः, प्रदेश इत्यर्थः, अत्राह - नन्वयं प्रदेशाः सकलधर्मास्तिकायायदव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशमाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सन् तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह--' से पसे धम्मेऽति'त्ति स प्रदेशो धर्मः सकलधर्मास्तिकायाद्रव्यतिरिक्त इत्यर्थः, वास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेशः स नि:शेषजीवास्तिमायैदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सनत्त्प्रदेशो धर्मात्मक उच्यत इति भावः । " अधर्माकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयं । जीवास्तिकाये तु 'जीव पएसे से नोजीवे 'त्ति जीव: प्रदेश इति - जीवास्तिकायात्मकः प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्येह देशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेश: स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः, एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धदव्याणामनन्तत्वादेकदेशवर्तिरित्यर्थः । Jain Education International 9 एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः, स प्राह-यद्भणसि - धर्मः प्रदेशः स प्रदेश धर्म इत्यादि, तन्न भवति न युज्यते, कस्मादित्याह - इह खलु द्वौ समासौ भवतः, तद्यथा-तत्पुरुषः कर्मधारयश्च, इदमुक्तं भवति-'धम्मे परसे से पएसे धम्मे' इत्युक्ते समासद्वयारम्भकवाक्यद्वयमत्र संभाव्यते, तथाहि यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यं, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ?, उच्यते, समासारम्भकवाक्ययोः समासोपचाराद्, अथवा अलुक्समासविवक्षया समासावाप्येतौ भवतो, यथा कण्ठेकाल इत्यादीत्यदोष:, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याहतन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि, तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो धर्मे प्रदेश इति भेदापत्तिः, यथा For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy