________________
४३६
___ अनुयोगद्वार-चूलिकासूत्रं पाति, अथवा केवलिनश्छद्मस्थस्य चोपशान्तमोहक्षीणमोहस्य तद्भवत्यतः स्वामिभेदाद् द्वैविध्यमिति। . तदेतच्चारित्रगुणप्रमाणं, तदेतञ्जीवगुणप्रमाणं, तदेतद्गुणप्रमाणमिति॥ तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह
मू.(३१०) से किंतं नयप्पमाणे?, २ तिविहे पन्नत्ते, तंजहा-पत्थगदिटुंतेणं वसहिदिटुंतेणं पएसदिढ़तेणं।
से किंतं पत्थगदिद्रुतेणं?, २ से जहानामए केईपुरिसे परसुंगहाय अडवीसमहत्तो गच्छेज्जा, तं पासित्ता केइ वएज्जा-कहिं भवं गच्छसि?, अविसुद्धो नेगमो भणइ-पत्थगस्स गच्छामि, तंच केई छिंदमाणं पासित्ता वएज्जा-किं भवं छिंदसि?, विसुद्धो नेगमो भणइ-पत्थयं छिंदामि, तंच केई तच्छमाणं पासित्ता वएज्जा-किं भवंतच्छसि?, विसुद्धतराओ नेगमो भणइ-पत्थयं तच्छामि, तं च केइ उक्कीरमाणं पासित्ता वएज्जा-किं भवं उक्कोरसि?, विसुद्धतराओ नेगमो भणइ-पत्थयं उक्कीरामि, तंच केइ (वि) लिहमाणं पासित्ता वएज्जा-किं भवं(वि)लिहसि?, विसुद्धतराओ नेगमो भणइ-पत्थय(वि)लिहामि, एवं विसुद्धतरस्स नेगमस्स नामाउडिओ पत्थओ, एवमेव ववहारस्सवि, संगहस्स चियमियमेज्जसमारूढो पत्थओ, उज्जुसुयस्स पत्थओवि पत्थओ मेजपि पत्थओ, तिण्हं सदनयाणं पत्थयस्स अत्थाहिगारजाणओ, जस्स वा वसेणं पत्थओ निप्फज्जइ, से तं पत्थयदिटुंतेणं।
वृ.अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः स एव प्रमाणं नयप्रमाणं, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसंग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वान्त्रैविध्यमुच्यते, तथा चाह-तद्यथा-प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः, तत्र प्रस्थकदृष्टान्तं दर्शयति-तद्यथानामकः कश्चित्पुरुषः परशुं-कुठारंगृहीत्वा अटवीमुखो गच्छेदित्यादि, इदमुक्तं भवति-प्रस्थको-मागधदेशप्रसिद्धो धान्यमानविशेषस्तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं दृष्टवा कश्चिदन्यो वदेत्-क्व भवान् गच्छति?,...
तत्राविशुद्धनैगमो भणति-अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः, किमित्याह-प्रस्थकाय गच्छामि, इदमुक्तं भवतिनैके गमा-वस्तुपरिच्छेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठानिमित्तमेव गमनं, न तु प्रस्थकनिमित्तं, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात्कारणे कार्योपचारात्तथाव्यावहारदर्शनादेवमप्यभिधत्तेऽसौ-प्रस्थकस्य गच्छामीति, तं च कश्चित् छिन्दन्तं, वृक्षमिति गम्यते, पश्येद्, दृष्ट्वा च वदेत्-किं भवाँच्छिनत्ति?, ततः प्राक्तनात् किञ्चिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति-प्रस्थकं छिन्द्र, अत्रापि कारणे कार्योपचारात्तथाव्यवहतिदर्शनादेव काष्ठेऽपि छिद्ममाने प्रस्थकं छिनमित्युत्तरं, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र किञ्चिदासन्नत्वाद्विशुद्धत्वं, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम्, एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया, नवरं तक्ष्णुवन्तं-तनूकुर्वन्तम् उत्किरन्तं-वेधनकेन मध्याद्विकिरन्तं विलिखन्तं-लेखन्या मृष्टं कुर्वाणम्, एवमनेन प्रकारेण तावनेयं यावद्विशुद्धतरनैगमस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org