SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४३५ मूलं-३०९ भाविव्यपदेशान्तरत्वात् स्वल्पकालं, तच्चाद्यचरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति, आत्मन: कथां यावदास्ते तद्यावत्कथं-यावञ्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम, एतच्च भरतैरावतेष्वाद्यचरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां चसंभवति, पूर्वापर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थानं भरतैरावतप्रथमपश्चिमतीर्थकरतीर्थ एव, नान्यत्र, तच्च सातिचारंनिरतिचारंच, तत्रेत्वरसामायिकस्य शैक्षकस्य यदारोप्यते तीर्थान्तरंवा संक्रामतः साधोर्यथा पार्श्वनाथतीर्थान्महावीतीर्थं सङ्क्रामतस्तन्निरतिचारं मूलगुणघातिनस्तु यत् पुनर्वतारोपणं तत्सातिचारं। परिहार:-तपोविशेषस्तेन विशुद्धं, अथवा परिहार:-अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धं तदेव परिहारविशुद्धकं, तदपि द्विविधं-निर्विश्यमानकं निर्विष्टकायिकं च, तत्र निविश्यमानम्,-आसेव्यमानम्, अथवा तदनुष्ठातार: साधवो निविश्यमानकाः, तत्सहयोगात्तदपि निविश्यमानकं, निर्विष्ट-आसेवितः प्रस्तुततपोविशेषः कायो येषां ते निर्विष्टकायिकाः, त एव निविष्टकायिका: साधवः, तदाश्रयत्वाद् प्रस्तुतचारित्रमपि निर्विष्टाकायिकम्, इदमत्र हृदयम्-तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपत्रपूर्वं तदन्तिके वा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यते, नानस्य समीते, तत्रैक: कल्पस्थितो यदन्तिके सर्वा सामाचारी क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्त्यकर्तृव्यं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते, तत्र परिहारकाणां तपः प्रोच्यते-ग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठं उत्कृष्टतस्त्वष्टमं, शिशिरे जघन्यमध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमंच, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थितानुपरिहारिकाः पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च पञ्चानामप्याचामाम्लमेव, नान्यत्, ततः परिहारिकाः षण्मासान्यावद्यथोक्तं तपः कृत्वा अनुपरिहारिकता प्रतिपद्यन्ते, अनुपरिहारिकस्तु परिहारिकतां, तैरपि षण्मासामान्यद्यदा तपः कृतं भवति तदा कृततपसामष्टानां मध्यादेकः कल्पस्थितो व्यवस्थाप्यते, अग्रतेनश्चासौ षड् मासान्यावद्यथोक्तं तपः करोति, शेषास्तु सप्तानुचरतामाश्रयन्ति, एवं चाष्टादशभिर्मासैरयंकल्प: समाप्यते, तत्समाप्तौ च भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपद्यरेन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गतिः, अपरं चैतच्चारित्रं छेदोपस्थानचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन, तदेवमिह यो यस्तपः कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोती तत्सम्बन्धि परिहारविशुद्धिकं निविष्टकायिकमुच्यते, ये तु तपः कुर्वन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थितम्। ___ संपरैति-पर्यटति संसारमनेनेति सम्पाय:-क्रोधादिकषायः, लोभांशमात्रावशेषतया सूक्ष्मः सम्परायो यत्र तत्सूक्ष्मसम्परायम्, इदमपि संक्लिश्यमान विशुद्धयमानकभेदाद्विधैव, तत्र श्रेणिमारोहतो विशुद्ध्यमानकमुच्यते, ततः प्रशच्यवमानकस्य संक्लिश्यमानकमिति। 'अहक्खाय'ति अथशब्दोऽत्र याथातथ्ये आहङभिविधौ आ-समन्ताद्याथातथ्येन ख्यातमथाख्यातं कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः, एतदपि प्रतिपात्यप्रतिपातिभेदात् द्वेधा, तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy